________________
जीवन्धरचम्पृकाव्ये मदकलकलभस्य यानतुल्या गतिरिह यूथपयूथिकाभकेश्याः ।
मृदुकरनिभमूझयुग्ममस्याः कुचयुगमातनुते च कुम्भसाम्यम् ।। २६ ।। इति मनसि चिन्तयन्नव पञ्चशरप्रहारपरवशो गजगजमालानमानीय, सहचरैः सह रथमलङ्कुर्वन, गजविज्ञानप्रशंसापरैः पौरैः स्तूयमानो निजमन्दिगन्तरं प्रविवेश ।
साक्षात्पञ्चशरं कुमारमतुलं निध्याय 'रुद्ध्वा तरं ____ कामार्ता गुणमालिका च सदनं गत्वा चिरं विह्वला । ध्यायन्ती मनसा तमेव सततं सन्तापशुप्यन्मुखी
पृष्टाप्यत्र सखीजनैर्बहुतरं नैवोत्तरं सा दई ।। ३० ।। बलवदस्वस्था गुणमाला कन्दर्प निन्दामेवमकरोत्
कुसुमायुध पञ्च ते कलरम्बा नियता लक्ष्यजनस्त्वनककः । इति चेदहमे किका कथं वा गमितानन्तशरैश्च पञ्चताम ॥ ३१ ।।
मदकलेति-यूथपो गणनाथी गजश्रेष्ठ इति यावत् , तस्य या यूथिका वैशिष्टयार्थमधिमस्तकं धारिता मागी 'जुही' इति प्रसिद्वा पुष्पसन्ततिः तदाभास्तत्तल्याः केशाः कचाः यस्यास्तस्याः, अस्या गुणमालायाः, गतिगमनम्, इह लोके, मदकलश्चासौ मदोत्कटश्चासौ कलभश्च करी चेति मदकलकलभस्तस्य, 'मदोत्कटस्तु मढकलः' इत्यमरः । यानेन गमनेन तुल्या सदृशीति यानतुल्या, ऊरुयुग्मं सक्थियुगलम्, मृदुकरनिभं कोमलशुण्डादण्डसदृशम्, अस्तीति शेपः । कुचयुगं च स्तनयुग्मं च, कुम्भसाम्यं गण्डस्थलसादृश्यम्, आतनुते विस्तारयति । पुष्पिताग्रावृत्तम् 'अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिाताग्रा' इति लक्षणात् ॥ २६ ॥
इति मनसीति--इति पूर्वोक्तप्रकारेण, मनसि चेतसि, चिन्तयन्नेव विचारयन्नेव, पञ्चशरस्य कामस्य ग्रहारेणाघातेन परवशः परायत्तः, जीवन्धरः, गजराजं करीन्द्रम्, आलानं बन्धनस्तम्भम्, आनीय प्रापथ्य, सहचरः सखिभिः, सह सार्धम्, रथं स्यन्दनम्, अलङ्कुर्वन् शोभयन् , गजविज्ञानस्य हस्तिविज्ञानस्य प्रशंसायां श्लाघायां परास्तत्परास्तः, पोर नागर :, स्तूयमानो नृयमानः सन्, निजमन्दिरान्तरं स्वसदनाभ्यन्तरम्, प्रविवेश प्रविष्टवान् ।
साक्षादिति-अतुलमनुपमम्, कुमारं जीवन्धरम्, साक्षात्प्रत्यक्षम्, पञ्चशरं कामम्, निध्याय नितरां ध्यात्वा तं प्रत्यक्षकामं मत्वेति यावत्, अन्तरं हृदये रुद्ध्वा स्थापयित्वा, कामेन मदनव्यथयार्ता पीडितेति कामार्ता, गुणमालिका च कुबेरमित्रतनया च, सदनं गृहम्, गत्वा ब्रजित्वा, चिरं चिरकालपर्यन्तम्, विह्वला विचित्ता अभवदिति शेपः । अत्र सदने, मनसा चेतसा, सततं सर्वदा, तमेव जीवन्धरमेव, ध्यायन्ती चिन्तयन्ती, सन्तापेन मदनजतापेन शुप्यनारसीभवन्मुखं वक्त्रं यस्यास्तथाभूता, सा गुणमालिका, सीजनैः सहचरीसमूहैः, बहुतरमनेकवारम्, पृष्टाप्य नुयोजितापि, उत्तरं प्रत्युत्तरम्, नैव ददं न इत्तवती ॥३०॥
वलवदस्वस्थेति-बलवदस्वस्था-अतिशयेनास्वस्था, गुणमाला, एवं बच्यमाणप्रकारेण, कन्दपस्य कामस्य निन्द्रामपवादम. अकरोद व्यधात ।
कुसुमायुधेति-कुसुममेव पुष्पमेवायुधं शस्त्रं यस्य तत्सम्बुद्धी हे कुसुमायुध हे मदन ! ते भवतः, कलम्बाः बाणाः नियता नियतसंख्याकाः पञ्चेति यावत्, लक्ष्यजनस्तु शरव्यजनस्तु, अनेकको विविधः अस्तीति शेपः, इतात्यम्, यद्यदि, तर्हि, एकिका एकांकिनी, अहं गुणमाला, अनन्तशरश्च संख्यातीतबाणेश्व, पञ्चतां पञ्चसंख्यात्वम् मृत्युं च मृतप्रायदशामिति यावत् , कथं वा केन प्रकारेण वा, गमिता प्रापिता । तव नियतकलम्वा अनन्ताः कथं जाता, अहमेकिका चतः पञ्चतां कथं प्रापितेति विरोधः, परिहारस्तूतः । 'पञ्चता मृत्युमात्रेऽपि पञ्चभावेऽपि पञ्चता' इति विश्वलोचनः ॥३१॥
१. रूढान्तरं मु०।