________________
चतुर्थों लम्भः
वयस्याविप्रयोगेन गुणमाला शुशोच सा।।
चन्द्रिकाया वियोगेन प्रातरुत्पलिनी यथा ॥२६।। तावत्सक्थिजवप्रणुन्नपवनाटोपोन्कटोत्पाटितैः
शाखानां वलयनिरभ्रगगनेऽप्यभ्रभ्रमं भावयन । हाहाकारपराञ्जनान्विरचयन राज्ञो मदान्धो गजो
वेगाजङ्गमशैलराजगरिमा पौरब्रज प्राविशत् ।। २७ ।। करटोद्यन्मदाम्भोभिः मृजनकल्लोलिनीयुगम् ।
अधावन्मत्तकुम्भीन्द्रो गुणमालारथं प्रति ।। २८ ।। तदा परिजनेषु परिणतकरेणुराजभयेन दूरदूरमपसर्पत्सु, कस्मिंश्चिद्धात्रीजने समसुखदुःखतया मां हत्वा सा हन्यतामिति गुणमालायाः पुरतः स्थिते, हतेति शब्दमुखरेपु समीपवतियु जनेषु, करुणापरिणाहितहृदयो जीवन्धरः समुपेत्य, केसरीव सिंहनादप्रतिध्वनितदिक्तटो हेलयैव सिन्धुरं भोकरमपि सूकरं विधाय तदीयस्कन्धमलङ्कुर्वन, कुम्भस्थलसाम्यविलुलोकिपयेव कुम्भस्थले करं, तस्याः स्तनकलशे दृष्टिं, मनसि तत्प्रस्तावं च वितस्तार ।
नावलोकयामि, इत्येवम्, निश्वस्य निश्वासमादाय, कृतो विहितः सन्धायाः प्रतिज्ञाया धन्यो यया सा, रोपेण क्रोधनान्या विवेकरहिता, सती, कन्यागारं कन्यागृहम्, प्रविवेश प्रविष्टवत ।
वयस्याविप्रयोगेनेति-सा पूर्वोक्ता गुणमाला, वयस्याया आल्या विप्रयोगो विरहस्तेन, चन्द्रिकाया ज्योत्स्नायाः वियोगेन विरहेण, प्रातरुपलिनी यथा प्रभातपद्मिनीव, शुशोच शोकमकार्षीत् ॥ २६ ॥
अथ गजोपद्रवं वर्णयितुमाह-तावत् तावता कालेन, सक्थिनामूरूणां जवेन वेगेन प्रणुन्नः प्रेरितो यः पवनाटोपो वायुविस्तारस्तेनोत्कटं विकटं यथा स्यात्तथोत्पाटितानि निर्मूलितानि तैः, शाखानां वलयः शाखासमूहैः, निरभ्रगगनेऽपि निर्मेघाकाशेऽपि, अभ्राणां मेघानां भ्रमः संशयस्तम्, भावयन् उत्पादयन् , जनांल्लोकान् , हाहाकारे हाहाशब्दे परास्तत्परास्तान् , विरचयन् कुर्वन् , जङ्गमशैलराजस्य गच्छ पर्वतेश्वरस्येव गरिमा गौरवं यस्य सः, तथाभूतः, मदेन दानेनान्यो विगतदृष्टिः, राज्ञः काष्टाङ्गारस्य, गजो हस्ती, पौरब नागरिकसमूह, प्राविशत् प्रविवेश । शार्दूलविक्रीडितं च्छन्दः ॥ २७ ॥
करटेति-मदा एवाम्भांसीति मदाम्भांसि करटाभ्यां गण्डाभ्यामुद्यन्ति निःसरन्ति यानि मदाम्भांसि दानजलानि तैः, कल्लोलिनीयुगं नदीद्वयम्, सृजन् रचयन् , मत्तकुम्भीन्द्रो गन्धगजेन्द्रः, गुणमालारथं प्रति गुणमालास्यन्दनमुद्दिश्य, अबावत् वेगेन जगाम ।। २८ ।।
तदेति-तदा गजाक्रमणकाले, परिजनेषु परिवारपुरुषेषु, परिणतस्य कृततिर्यग्दन्तप्रहारस्थ करेणुराजस्य गजेन्द्रस्य भयं त्रासस्तेन, दूरदूरमतिदूरम्, अपसर्पत्सु गच्छ-सु सत्सु, कस्मिंश्चित्कस्मिन्नपि, धात्रीजने-उपमातृजने, समे सुखदुःखे यस्यास्तस्या भावस्तत्ता तया, मां धात्रीम्, हत्वा मारयित्वा, सा गुणमाला, हन्यतां मार्यताम्, इत्येतदभिप्रायेग, गुणमालायाः, पुरतोऽग्रे, स्थिते विद्यमाने सति, समीपवर्तिषु निकटस्थेषु नरेषु, पुरुषेषु, हता मृता, इत्येवम् शब्दैर्ध्वनिभिमुखरा वाचालास्तेषु तथाभूतेषु सत्सु, करुणयानुकम्पया परिगाहितं विस्तारितं हृदयं चित्तं यस्य सः जीवन्धरो विजयासूनुः, समुपेत्य समागत्य, केसरीव सिंह इव, सिंहनादेन च्वेलारवेण प्रतिध्वनितानि प्रतिनादितानि दिक्तटानि येन तथाभूतः सन् , हेलयैव, क्रीडयैव, भीकरमपि भयोत्पादकमपि, सिन्धुरं हस्तिनम्, सूकरं वराहं निलमिति यावत्, विधाय कृत्या, तदीयस्कन्धं तत्सम्बन्धिीवापृष्ठम्, अलङ्कुर्वन् शोभयन् तत्र स्थितः सन्निति यावत् , कुम्भस्थलेन गण्डस्थलेन यत् साम्यं सादृश्यं तस्य विलुलोकिवा दिक्षा तमेव, कुम्भस्थले गण्डस्थले, करं हस्तम्, तस्या गुणमालायाः, स्तनकलशे कुचकुम्भे, दृष्टिं नयनम्, मनसि चेतसि, तस्याः प्रस्तावस्तं गुणमालावसरम् च, वितस्तार विस्तारयामास ।
१. प्रभुग्न- मु०।