________________
८४
जीवन्धरचम्पूकाव्ये सम्भूतयोर्गुणमालासुरमञ्जरीनामधेययोः कन्यारत्नयोः, चन्द्रोदयसूर्योदयाभिधपरस्परपटवासचूर्णोस्कर्षस्पर्धया पराजिता नवापगाजलस्नाता मा भूदिति कृतसंगरयोः, कुट्टिन्यौ, चूर्णमादाय, तत्र तत्र विचार्य, क्रमेण जीवन्धरनिकटमागत्य, चन्द्रोदयसूर्योदययोर्मध्ये कः श्लाघ्य इति पृच्छाञ्चक्रतुः ।
स्वामी च चन्द्रोदयचूर्णमूचे श्लाघ्यं तदन्यद्भूनकालयोग्यम् । आद्यं किरन्व्योम्नि समावृतालिं निर्दिश्य च प्रत्ययमाततान ।।२२।। ततः कुमारं कुरुवंशवीरं नत्वा च नुत्वा विनिवृत्य चेट्यौ । स्वस्वामिनीसन्निधिमेत्य वेगाद्विज्ञापयामासतुरेवमेव ॥२३॥
उभयोश्चूर्णयोरात्तगन्धभावे समेऽपि च ।
जीवकेन विनिर्दिष्टे शुशोच सुरमञ्जरी ॥२४॥ उल्लासयामास मुखाम्बुजातं चन्द्रोदयोऽयं गुणमालिकाया ।
सूर्योदयो द्राक्सुरमञ्जरीश्रीवक्त्राब्जशोपं व्यतनोद्विचित्रम् ॥२५॥ ततः पराभवजनितदुरासाकलुषितचेतना सुरमञ्जरी सख्या गुणमालया बहुधा प्रार्थिताप्यकृतस्नानैव निवृत्य जीवकादपरं नरं न पश्यामीति निश्वस्य कृतसन्धाबन्धा रोपान्धा कन्यागारं प्रविवेश।
दत्तो नामनी ययोस्तथाभूतो जलबोसागरौ तयोः सम्भूते समुत्पन्ने तयोः, गुणमालासुरमञ्जों नामधेये नामनी ययोस्तयोः, चन्द्रोदयसूर्योदयावभिधे ययोस्तौ तथाभूतौ यो परस्परपटवासचूर्णी तयोरुन्कर्प प्रकर्पतायां स्पर्धासूया तया, पराजिता विजिता, आवयोरिति शेपः, नवापगाया नवनद्या जले नीरे स्नाता कृतस्नाना, मा भूत् न स्यात् , इत्येवं कृतसंगरयोः कृतप्रतिज्ञयोः, कन्यारत्नयोः पतिंवराश्रेष्ठयोः 'जाती जाती यदुत्कृष्टं तद्रत्नमिहोच्यते' इति रत्नलक्षणम्, कुहिन्यौ दास्यौ, चूर्णं पटवासद्रव्यम्, आदाय गृहीत्या, तत्र तत्र तत्तत्स्थानेष, विचार्य विचारं कारयित्वा, क्रमेण क्रमशः, जीवन्धरनिकटं जीवकसमीपम्, आगत्य, चन्द्रोदयसूर्योदययोरेतन्नाम्नोः, चूर्णयोः, मध्ये, कश्चूर्णः, श्लाघ्यः प्रशंसनीयः, इति पृच्छाञ्चक्रतुः पप्रच्छुः ।
स्वामी चेति-स्वामी च जीवन्धाश्च, चन्द्रोदयचूर्ण गुणमालाचूर्णम्, श्याध्यमुत्तमम्, तदन्यत् तदितरत् , घनकालयोग्यं प्रावृट्समयाहम्, ऊचे जगाद । आद्यं प्रथम चूर्णम्, व्योम्नि गगने, किरन् प्रक्षिपन्, समावृताः समाकृष्टा अलयो भ्रमरा येन तं तथाभूतम्, निर्दिश्य प्रदा, प्रत्ययं विश्वासम्, आततान च विस्तारयामास च ॥२२।।
ततः कुमारमिति-ततस्तदनन्तरम्, चेट्यौ दास्यो, कुरुवंशवीरं कुरुवंशसुभटम्, कुमारजीवन्धरम्, नत्वा नमस्कृत्य, नुत्वा च स्तुत्वा च, विनिवृत्य परावृत्य, स्वस्वामिनीसन्निधिं गुणमालासुरमञ्जरीसमीपम्, वेगाजवेन, एट्यागत्य, एवमेव पूर्वोक्तप्रकारेणैव, विज्ञापयामासतुः कथयामासतुः ।।२३।।
उभयोरिति-उभयोगुणमालासुरमार्योः, आत्तगन्धभावे गृहीतसौगन्ध्ये, समेऽपि सदृशेऽपि च सति, सुरमञ्जरी कुवेरदत्ततनया, जीवकेन जीवन्धरेण, विनिर्दिष्टे कथिते, शुशोच शोकचकार ॥२४॥
उल्लासयामासेति-अयमेपः, चन्द्रोदयो निशाकरोद्गमः पक्षे तन्नामा चूर्णः, गुणमालिकायाः कुबेरमित्रसुतायाः, मुखाम्बुजातं वदनवारिजम्, उल्लासयामास प्रहृष्टं चकार, सूर्योदयो दिवाकरोदयः पक्षे तन्नामा चूर्णः, द्राक् झटिति, श्रियोपलक्षितं वक्त्राब्जं श्रीवक्त्राब्जं सुरमञ्जाः श्रीवक्त्राब्जमिति सुरमञ्जरीश्रीवक्त्राब्जं तस्य शोपः शोपणं तम्, व्यतनोच्चकार, इति विचित्रमद्भुतम्, परिहारस्तूक्तः । विरोधाभासोऽलङ्कारः । इन्द्रवज्रावृत्तम् 'त्यादिन्द्रवज्रा यदि तौ जगौ गः' इति लक्षणात् ॥२५॥
ततः पराभवेति-ततस्तदनन्तरन्, पराभवेन पराजयेन जनिता समुत्पन्ना या दुरासदा दुप्प्राप्या विकटेति यावत् , ईर्ष्या मत्सरता तया कलुषितं मलिनं चेतनं चित्तं यस्याः सा, सुरमञ्चरी, सख्या वयस्यया, गुणमालया, बहुवा विविधप्रकारेण, प्रार्थिताप्यभ्यर्थितापि, न कृतं स्नानं यया तथाभूतैवाविहितमजनैव, निवृत्य नवापगातीरात्प्रत्यावृत्य, जीवकात् सत्यन्धरसुतात् , अपरं भिन्नम्, नरं पुरुषम्, न पश्यामि