________________
चतुर्थों लम्भः काचन चपलजडापहृतदुकूलपट्टे मचिविजितस्फटिकपट्टे धनजयनफलके नखतिव्याजेन मकरकेतनस्य जगज्जयप्रशस्तिवर्णावलिमिव विभ्राणा, करनिपीडनोदीर्णरक्तिमधागमिव विद्रुमयन्त्रनिगलत्पयोधारां शयकान्तिसंक्रातरक्तवर्णतया कुङ्कमरसानुकारिणीं प्रियलपनतले सहर्ष ववर्ष ।
सुदतीकुचकुड्मलाग्रमागत्तरुणः कश्चिदसिञ्चदम्बुभिः । हृदयस्थलजातरागकल्पद्रुमवृद्धये किमु कामुकः परम् ।।१८।। अन्या काचिद्वल्लभं वञ्चयित्वा सख्या साकं वारिमन्ना मुहूतम् । तस्या गात्रामोदलोभाद्भ्रमद्भिभृङ्गाता सामुनालिङ्गिता च ॥१६।। सरोजिनीमध्यविराजमाना काचिन्मृगाक्षी कमनीयरूपा । वक्षोजकोशा मृदुवाहुनाला नाक्षि वक्रायतफुल्लपद्मा ।।२०॥ च्युतैः प्रसूनैर्घनकेशवन्धान्मृगीदृशां तारकिते जलेऽस्मिन् ।
निरीक्ष्यमाणं तरुणैश्चकारैः कस्याश्चिदास्यं शशभृद्बभूव ।।२१। एवं जलक्रीडापरायणेपु पुरतरुणेयु, तटिनीतटालङ्कारभूतयोः कुवेरमित्रकुवेरदत्तनामजलधि
काचनेति-चपलं चञ्चलं पक्षे चञ्चलः कृतत्वर इति यावत्, यत् जडं डलयोरभेदान्जलं नीरं पक्ष जडो धू? नायकस्तेनापहृतं दूरीकृतं दुकृलपट्ट यस्मात्तस्मिन् , रुच्या कान्त्या विजितः पराजितः स्फटिकपट्टः सितोपलफलको येन तस्मिन् , घनश्चामौ जघनफलकश्च नितम्बपट्टश्वे ति घनजघनफलकस्तस्मिन् , नखक्षतिव्याजेन नखराघातदम्भेन, मकरकेतनस्य कामस्य, जगतां जयो जगञ्जयस्त्रिभुवन विजयस्तस्य प्रशस्तिः कीयङ्कनम्, तस्या वर्णावलिरक्षरपतिस्तामिव, बिभ्राणा दधाना, काचन कामिनी, करयोः पाण्यानिपीडनेन संमर्दनातिशयेनोदीर्णा प्रकटिता या रक्तिमधारा रुधिरसन्ततिस्तामिव, शयबार्हस्तयोः कान्त्या दीप्त्या संक्रान्तो विपरिवर्तितो रक्तवर्णों लोहितवर्णो यस्यास्तस्या भाबस्तत्ता तया, कुङ्कुमरसं काश्मीरद्रवमनु करोतीत्येवं शीला ताम्, विट्ठमयन्त्रात्प्रवालनिर्मितयन्त्रान्निगलन्ती चासो पयोधारा चेति विद्मयन्त्रनिर्गलत्पयोधारा ताम्, प्रियलपनतलं वल्लभवदनतले, सहर्प सप्रमोदम्, ववर्ष वर्षति स्म ।
___ सुदतीति-तरुगो युवा, कश्चित्कोऽपि, कामुकः प्रियः 'प्रियः कामी च कामुकः' इति धनंजयः, आरात् समीपे 'आरादूरसमीपयाः' इत्यमरः, शोभना इन्ता यस्याः सा सुदती स्वकीयवल्लभा तस्याः कुचकुड्मलयोः स्तनमुकुलकयोरग्रं पुरःप्रदेशम्, हृदयस्थले मनःप्रदेशे जातः समुत्पन्नो यो राग एव प्रोतिरेव कल्पद्रुमः कल्पवृक्षस्तस्य वृद्वय वर्धनाय, किमु-इति विन, अम्बुभिः सलिलः, परमन्यन्तम्, असिञ्चत् सिपेच ॥१८॥
अन्या काचिदिति-अन्या-इतरा, काचिकापि, वल्लभा, वल्लभं प्रियम्, वञ्चयित्वा प्रतार्य, मुहर्त घटिकाद्वयं यावत्, सख्या सहचर्या, साकं सार्धम्, वारिणि जले मग्ना बुडितेति वारिमग्ना, अभूदिति शेपः, सा च वल्लभा, अमुना वल्लभेन, तस्या वारिमग्नायाः, गात्रामोदलोभाच्छरारसुगन्धिलोभान, भ्रमद्भिः पार्श्व पर्यटद्भिः भृङ्गरलिभिः, ज्ञाता बुद्धा, आलिङ्गिता समाश्लिष्टा च । शालिनीवृत्तम् ॥१६॥
सरोजिनीमध्येति--सरोजिनीनां कमलिनीनां मध्येऽभ्यन्तरे विराजमाना शोभमाना, कमनीयं मनोज्ञं रूपं सौन्दर्य यस्याः सा, वक्षौजी स्तनौ कोशाविव कमलकुड्मलाविव यस्याः सा, वक्त्रं वदनमायतफुल्लपद्ममिव विशालविकसितारविन्दमिव यस्याः मा, काचित् कापि, मृगाक्षी मृगनयनी, नालक्षि नो दृष्टा, सरोजिनी सादृश्यात्पृथङ् नाभिज्ञातेति भावः। उपजातिवृत्तम् ॥२०॥
च्युतैरिति--मृग्या इव दृशी नयने यासां तासां मृगलोचनानाम्, घनश्चामा निविडश्वासौ केशबन्धश्च कचबन्धश्चेति घनकेशबन्धस्तस्मात्, च्युतः पतितः, प्रसूनैः कुसुमैः, तारकिते संजाततारके व्याप्त इति यावत्, अस्मिन् जले नवापगानीरे, तरुणयुवभिः, चकोरै वंजीवः, निरीच्यमाणमवलोक्यमानम्, कस्याश्चिन्कस्या अपि नायिकायाः, आस्यं मुखम्, शशभृच्चन्द्रः, बभूव आसीत् ॥२१॥
___ एवं जलक्रीडापरायणेष्विति-एवमनेन प्रकारेण, पुरतरुणेषु नगरनिर्जरेपु, जलक्रीडायां वारिकेल्यां परायणास्तत्परास्तेषु सत्सु, तटिन्या नवापगायास्तटस्य तीरस्यालङ्कारभूते भूपर्णाभूते तयोः कुबेरमित्रकुबर