________________
चतुर्थो लम्भः
विलीनशिलीमुखजराभीरुशरधि सरूपपाटलपटलं वियोगिजनस्वान्तनितान्तकृन्तनकुन्तायित कैतकदन्तुरितं वनमजायत ।
૭૭
मार्गे मार्गे माधवीमानिनीभिः सूनार्चाभिर्मानितो वातपोतः । भृङ्गस्त्रीणां गीतसक्तं कुरङ्गमारुह्यासावाववौ मन्दमन्दम् ॥ २ ॥ पुरान्निरीयुः प्रमदाजनेन पौराः समस्ता नरपालमुख्याः । Rasifafa वनेऽपि मधौ दुरन्ते विरहित्रजस्य || ३ || तुङ्गं शताङ्गमारूढः स्वामी सहचरैः सह । पौरस्त्रीनयनानन्द मातन्वन्निरगात्पुरात् ॥ ४ ॥
ततो जनकोलाहलोद्भ्रान्तशकुन्तवृन्दतया माधवागमन कौतुकेनोत्क्षिप्तवैजयन्तीमिव सञ्चरच्चञ्चरीकधोरणीहरिन्मणिमयतोरणमालाविराजितां पल्लवकवलनतत्परपयोजवान्धवस्यन्दनगन्धर्व
स्तन
वदनबिलनिपतितफेनशकलसंभाव्यकलिकाविलसितोन्नतमहीरुहराजितामभिसारिकामिवोच्चैः शिखरशोभितपत्रविचित्रामनेकविटप संस्पृष्टपयोधरतटां चारामवीथीमासाद्य पौराः पुष्पापचयं
तथाभूतो यो जराभीरोः कामस्य शरधिरिपुधिस्तस्य सरूपं सदृशं पाटलपटलं स्थलकमलसमूहो यस्मिंस्तत्, वियोगिजनस्य विरहिमर्त्यस्य स्वान्तं चित्तं तस्य नितान्तमत्यन्तं यत्कृन्तनं छेदनं तस्मिन् कुन्तायितानि भल्लायितानि यानि कैतकानि केतकीपुष्पाणि तैर्दन्तुरितं व्याप्तम् ।
मार्गे मार्ग इति - मार्गे मार्गे प्रतिमार्गम्, माधव्य एव मानिन्यस्ताभिर्वासन्तीललनाभिः ‘अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवीलता' इत्यमरः, सूनैरर्चाः सूनार्चाः पुष्पपूजास्ताभिः पुष्पवृष्टिभिरिति यावत्, मानितः समादृतः असौ वातपोतः पवनबालको मन्थरसमीर इति यावत् भृङ्गस्त्रीणां भ्रमरीणाम्, गीते सक्तो गीतसक्तस्तं गानावलीनम्, कुरङ्ग हरिणम्, आरुह्याधिष्ठाय मन्दमन्दं यथा स्यात्तथा आववौ चाति स्म 'वा गतिगन्धनयो:' इत्यस्य लिटि रूपम् । भृङ्गस्त्रीणां गीतावसक्तत्वात्कुरङ्गो मन्दं मन्दं यात्यत - स्तत्रारूढो वातपोतोऽपि मन्दं मन्दं याति स्मेति स्वतः सिद्धमेतत् ॥ २ ॥
पुरान्निरीयुरिति - विरहिणां वियोगिनां व्रजः समूहस्तस्य दुरन्ते दुःखस्वरूपे, मधौ वसन्ते, aastis, वने कानने सलिले च 'वनं नपुंसकं वीरे निवासालयकानने' इति मेदिनी, क्रीडां केलिम, विधातुं तुम्, नरपालो नृपतिर्मुख्यः प्रधानो येषु ते, समस्ता निखिलाः, पुरे भवाः पौरा नागरिकाः प्रमदाजनेन वनिताजनेन सार्धमिति शेषः, पुरान्नगरात्, निरीयुर्निर्जग्मुः ॥ ३ ॥
तुङ्गं शताङ्गमिति — तुङ्गं समुन्नतम्, शताङ्गं रथम्, आरूढोऽधिष्टितः, स्वामी जीवन्धरः, पौरस्त्रीणां नारीणां नयनानां लोचनानामानन्दं हर्षम्, आतन्वन् विस्तारयन्, सन् सहचरैमित्रैः सह साकम्, पुरात् नगरात्, निरगान्निर्जगाम, 'इण् गतौ' इत्यस्य लुङि रूपम् 'इणी गा लुङि' इति धातोर्गादेशः, गातिस्थेतिसिचो लोपः ॥ ४ ॥
तत इति — ततस्तदनन्तरम्, आरामवीर्थमुपवनपदवीम् आसाद्य प्राप्य, पौरा नागराः, पुष्पाणामवचयः पुष्पावचयस्तं कुसुमत्रोटनम् कर्तुं विधातुम्, आरभन्त तत्परा बभूवुः, अथ कथम्भूतामारामवीथीमिति वर्णयति — जनानां लोकानां कोलाहलेन कलकलशब्देनोद्रान्तं समुत्पतितं शकुन्तवृन्दं पचिसमूहो यस्यास्तस्या भावस्तत्ता तया, माधवस्य वसन्तस्यागमनमापतनं तस्मिन् कौतुकं कुतुकं समुल्लास इति यावत्, तेन, उत्क्षिप्तोपरि धारिता वैजयन्ती पताका यया तथाभूतामिव, सञ्चरतां भ्रमतां चञ्चरीकाणां भ्रमराणां धोरण्यः पङ्क्तय एव हरिन्मणिमयतोरणमाला मरकतमणिनिर्मितवन्दनखजस्ता भिर्विराजिता शोभिता ताम्, पल्लवानां किसलयानां कवलने भक्षणे तत्परा उद्युक्ता ये पयोजबान्धवस्यन्दनस्य सूर्यरथस्य गन्धर्वा हयास्तेषां वदनबिलेभ्यो मुखगुहाभ्यो निपतितैः स्वलितैः फेनशकलैः डिण्डीरखण्डैः सम्भाव्याः समुत्प्रेच्या याः कलिकाः कुड्मलानि ताभिर्विलसिता विशोभिता य उन्नतमहीरुहाः समुत्तुङ्गवृक्षास्तै राजिता शोभिता ताम्, अभिसारिकामिव कुलटामिव उभयोः सादृश्यमाह - उच्चैयौंचनातिरेकेण समुत्थितयोः स्तनयोः कुचयोः शिखरेऽग्रभागे, शोभितानि विलसितानि यानि पत्राणि कुङ्कुमकस्तूर्यादिरचितरचनाविशे