________________
चतुर्थो लम्भः
[अथ' जीवन्धरो वीरो रेमे गन्धर्वदत्तया । समं भोगं यथायोग्यं संसारविषयोद्भवम ॥१॥ ततः समागतः कालः वसन्तसमयाभिधः।
वनं वृक्षलताव्याप्नं जननेत्रसुखावहम् ।। २॥] माकन्दद्रुममञ्जरीमधुझरीसंसक्तमाध्वीलिहां
झङ्कारैः पिकमञ्जगानकलितैर्मारोत्सवाशंसिनः । प्राप्ताः केचन वासराः कुरवकप्रोन्मीलितैः कोरकै
दन्ताभैविहसन्मुखा विरहिणां मर्मच्छिदाकर्मठाः ॥ १॥ तदानीं जगज्जयोद्युक्तपञ्चबाणप्रयाणसूचकमाञ्जिष्ठदृष्यनिलयनिकाशपल्लविताशोकपेशलं सुवर्गशृङ्खल संनद्धवनदेवताञ्चितपेटिकायमानरसालपल्लवसमासीनकोकिलकुलं तरुणजनहृदयविदारणदारुणकुसुमबाणनखरायमाणकिंशुककुसुमसङ्कलं मदननरपालकनकदण्डायितकेसरकुसुमभासुरं
[अथेति-अथ विवाहानन्तरं वीरः शूरो जीवन्धरः सायन्धरिः, गन्धर्वदत्तया वीणाविजयलब्धया खेचरसुतया, समं साधं, संसारविषयोद्भवं संसारविषयसमुत्पन्नं यथायोग्यं यथार्ह भोगं पञ्चेन्द्रियं विषयम्, अनुभवन्निति शेपः । रेमे रमते स्म ॥ १ ॥
तत इति-ततस्तदनन्तरं, वसन्तसमयाभिधो वसन्तकालनामधेयः, कालः समयः समागतः सम्प्राप्तः । वनं च काननं च, वृक्षलताव्याप्तं तस्बततिव्यालं, जननेत्रसुखावहं लोकलोचनाहाददायकम् अभूदिति शेषः ॥ २॥]
माकन्देति-पिकानां कोकिलानां मज़ुगानेन मनोहरसंगीतेन कलिताः सहितास्तैः, माकन्ददुमाणामाम्रानोकहानां मञ्जयः पुप्पस्रजस्तासां मधुझर्यो मकरन्दप्रवाहास्तासु संसक्ता निलीना ये माज़ीलिहोभ्रमरास्तेपाम्, झङ्कारैरव्यक्तशब्दविशेपैः, मारोत्सवं कामोल्लासमाशंसन्ति सूचयन्तीत्येवं शीलाः, कुरवकेषु वृक्षविशेषेषु प्रोन्मीलितैविकसितैः, दन्ताभैर्दशनसदृशैः, कोरकैः कुड्मलैः, विहसत् हास्यसहितं मुखं येपां ते, विरहिणां वियोगिनाम्, मर्मच्छिदायां मर्मस्थानविदारणे कर्मठा दक्षाः, केचन केऽपि, वासन्तिका इति यावत् , वासरा दिवसाः, प्राप्ताः समागताः । शार्दूलविक्रीडितच्छन्दः ॥ १॥
तदानीमिति-तदानीं तस्मिन् काले, वनं विपिनम्, ईदृग् अजायत बभूव, कीदृगिन्याह-जगज्जयाय लोकविजयायोद्यक्तस्तत्परो यः पञ्चबाणः कामस्तस्य प्रयाणं प्रस्थानं तस्य सूचका निवेदका ये माञ्जिष्ठा मजिप्ठेन वर्णेन रक्ता दृप्यनिलयाः पटगृहाणि तेषां निकाशाः सदृशा ये पल्लविताशोकाः किसलयितकङ्केलयस्तैः पेशलं सुभगम, सुवर्णशृङ्खलैः कनकशृङ्खलैः सन्नद्धाः समन्ताबद्धा वनदेवतानां वनाधिष्ठातृदेवीनां या अञ्चितपेटिकाः सुन्दरमञ्जूषास्तद्वदाचरन्तो ये रसाला आम्रवृक्षास्तेषां पल्लवेपु किसलयेषु समासीनं समुपविष्टं कोकिलकुलं परपुष्टसमूहो यस्मिस्तत् , तरुणजनस्य युवसमूहस्य हृदयं चित्तं तस्य विदारणे द्वेधीकरणे दारुणानि कठोराणि यानि कुसुमबाणस्य कामस्य नखराणि नखानि तद्वदाचरन्ति यानि किंशुककुसुमानि पलाशपुष्पाणि तैः सङ्कुलं व्याप्तम्, मदननरपालस्य कामभूपालस्य कनकदण्डायितानि सुवर्णदण्डसन्निभानि यानि केसरकुसुमानि वकुलपुष्पाणि तैर्भासुरं शोभमानम्, विलीना अन्तर्गताः शिलीमुखा बाणा यस्य
१. एतच्छलोकद्वयं मुद्रितपुस्तके नास्ति । २. धन ब० ।