SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्भः ७५ विदधानः, नखम्पचोष्मलवक्षोरुहशिखरादपकर्ण्य पञ्चशाखपङ्कजं निम्नं नाभिसरसि निदधानः, मदनकदनारम्भसंसूचककाञ्चीकलापकलकलपटुपटहारबपरिशोभितं नीवी वन्धनभेदनं कुर्वाणः, मदनमत्तदन्तावलालानस्तम्भायमानमूरुस्तम्भ मारमदेभमांचनायेव पग्मृिशन, अधिकतरमरमत । जायापती तो जगतां स्तुत्यौ निस्तुलसम्पदा । आसामासतुरानन्दनिधेः पारे गिरामपि ।।७०।। इति महाकविहरिचन्द्रविरचितं जीवन्धरचम्यूकाव्य गन्धर्वदत्तालम्भा नाम तृतीया लम्भः । परिचुम्बितां कुर्वन् , स्वेदसलिलेन धर्मोदकेन संजातं समुत्पन्नं माई कोमलत्वं येषां तैः, कररुहर्नम्वः, कठिनतरं परुपतरं यकुचकलशतटं स्तनकुम्भतीरं, पदानि चिह्नानि नखक्षतानीति यावत् , विदधानः कुर्वाणः, नखम्पचावूपमलौ च यो वक्षोरुही तयोः शिखरं तस्मात्, नखम्पचोप्णताशालिकुचाग्रभागात् , पञ्चशाखपङ्कजं करकमलम्, अपकर्ष्यावतार्य, निम्ने गभीरे, नाभिसरसि तुन्दीकासारे, निधत्त इति निदधानो निक्षिपन् , मदनकदनस्य कामयुद्धस्य सुरतस्येति यावत् , आरम्भः प्रारम्भस्तस्य संसूचको विनिवेदको यः काञ्चीकलापस्य मेखलामण्डलस्य कलकलोऽव्यक्तशब्दविशेषः, स एव पटुपटहानां श्रेष्ठवाद्यानामारवंः शब्दस्तेन परिशोभितं समलङ्कृतम्, नीवीबन्धनस्य अधोवस्त्रग्रन्थेभेदनमुद्घाटनम्, कुर्वाणो विदधानः, मदन एव काम एव मत्तदन्तावलो गन्धगजस्तस्यालानस्तम्भ इव बन्धस्तम्भ इवाचरतीति तथाभूतम्, अरुस्तम्भं सक्थिस्तम्भम्, मारमदेभस्य मदनमत्तमतङ्गजस्य मोचनं स्वतन्त्रीकरणं तस्मायिव, परिमृशन् मन्, अधिकतरं सातिशयं यथा स्यात्तथा, अरमत रमणञ्चकार । जायापतीति-निस्तुलसम्पदा निरुपमसम्पत्या, जगतां लोकानाम्, स्तुत्यौ स्तुत्यही, तो पूर्वोक्तो, जायापती दम्पती, आनन्द एव निविस्तस्य हर्पशेवधेः, गिरामपि वाचामपि पारे परतट, अगोचर इति यात्रत, आसामासन:स्थिती बभूवतुः 'दयायामश्च' इत्याम्प्रत्ययः ॥ ७० ॥ इति महाकविहरिचन्द्रविरचिते कौमुदीव्याख्याधरे जीवन्धरचम्पूकाव्ये गन्धर्वदत्तालम्भी नाम तृतीयो लम्भः । UN RAN स "fe
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy