________________
७१
जीवन्धरचम्पूकाव्ये किन्नरी किमसुरी किमु नारी मन्मथस्य किमु हेमलता किम् ।
चञ्चला किमुत तारकाथवा सा ध्रुवं नयनभाग्यरेखिका ।।६।। क्रमेण विवर्धितरागां सन्ध्याललनामिव सुधासूतिरेप जीवन्धरस्वामी गन्धर्वदत्तामाशिष्य मारवीरनिक्षिपनाराचनवमल्लिकाकोरकायमाणरोमाञ्चनपञ्चकञ्चकिताङ्गः, सुरतनाटकनान्दीपदानीव चाटुवचनानि प्रयुञ्जानः उत्तरीयापनयनत्रपमाणायाः कोमलभुजस्वस्तिकापिहितकुचकुड्मलतया वीक्षणमार्ग रुन्धत्यास्तस्या वक्षोरुहपूर्वाचलशृङ्गे कथंचिल्लब्धोदयेन निजलोचनचन्द्रेणाभिवर्धितकामार्णवलिलपूरैः श्रोणिक्षोणीमण्डलं लावयन् , संलापपल्लवितकुतुकामप्यभिधातुमनीशाम् , प्रियवदनचन्द्रोपकण्ठे नयनचकोरविहरणाय स्पृहयालुमपि लजया सम्मुखीभवितुमपारयन्तीम् , कुसुममृदुलदयिताङ्गस्पर्शनलोलुपामपि कम्पमानामेनाम् ,भृकुटीकपोलचुबुकरदनवसननयनचूचुकादिपढ़े परिचुम्बन , स्वेदसलिलसञ्जातमार्दवैः कररहै: कठिनतरकुचकलशतटे पदानि
शैवलो विस्तृतजलनाली, वा अथवा, इतस्ततः-~यतः कुतोऽपि, मुखं वक्त्रम्, चन्दिरं चन्द्रमसम्, संगता प्राप्ता, घना निविडा, वनालिरिव मेघपक्तिरिव, अथवा-यद्वा, मनोजदहनान्कन्दर्पपावकादुद्भवन्नुत्तिष्टन् निविडो विकटो धूमभारो धूम्रसमूहः, अथवा, मुखाब्जे वदनवारिजे विद्यमानो मधुपोत्करो भ्रमरसमूहः, अथवा किम्, कृशाङ्गयास्तन्वगाया गन्धर्वदत्ताया इनि यावत्, कचः केशः, आसीदिति शेपः । रूपकानुप्राणितः संशयालङ्कारः । पृथ्वीच्छन्दः ॥ ६८ ॥
किन्नरीति-सा गन्धर्वदत्ता, किं किन्नरी किन्नराङ्गना, किमु असुरी-असुराङ्गना, किमु मन्मथस्थ कामस्य नारी कामिनी रतिरिति यावत्, किम् हेमलता सुवर्णवल्लरी, किम् चञ्चला सौदामिनी, 'तडिन्सौदामिनीविद्यु चञ्चला चपला अपि' इत्यमरः । उत आहोस्वित् , तारका तारा, अथवा ध्रुवं निश्चयेन नयनयोर्भाग्यरेखिकेति नयनभाग्यरेखिका लोचनभागधेयलेखा, आसीदिति शेषः, संशयालदारः । स्वागता रथोद्धतयोमिश्रणादुपजातिः ॥ ६६ ॥
क्रमणेति-क्रमेण क्रमशः, विवर्धितो वृद्धिङ्गतो रागोऽरुणिमा पक्षे प्रीतिर्यस्यास्ताम्, सन्ध्याललनां पितृप्रसूप्रियाम्, सुवासूतिरिव शशीव, 'शशी विधुः मुधासूतिः' इति धनंजयः, एप जीवन्धरस्वामी सत्यन्धरतनयः, गन्धर्वदत्तां गरुडवेगसुताम्, आश्लिष्य समालिङ्गय, मारवीरेण मदनसुभटेन निक्षिप्ता निवाता या नाराचरूपा बाणरूपा नवमल्लिका नृतनमाल यस्तासां कोरकायमागाः कुड्मलायमाना ये रोमाञ्चा रोमहर्पणानि तेपां प्रपञ्चेन समूहेन कञ्चकितं व्याप्तमङ्गं शरीरं यस्य तथाभूतः सन् , सुरतं संभोग एव नाटकं रूपकं तस्य नान्दीपदानीव नान्दीवचनानीव चाटुवचनानि प्रियवाक्यानि, प्रयुञ्जानः प्रयुक्तानि कुर्वाणः, 'आशीर्वचमसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते । देवद्विजनृपादीनां तस्मान्नान्दीति संज्ञिता' इति नान्दीलक्षणम् । उत्तरीयस्योपरि वस्त्रस्यापनयनेन दूरीकरणेन पमाणाया लजमानायाः, कोमलभुजयोर्मुदुलबाह्वोः स्वस्तिकया स्वस्तिकाकृत्या पिहिते तिरोहिते कुचंकुड्मले स्तनमुकुलके यस्यास्तस्या भावस्तया, वीक्षणमार्ग नयनमार्गम्, रुन्धन्त्या आवृणुवत्याः, तस्या गन्धर्वदत्तायाः, वक्षोरुहः स्तन एव पूर्वाचल उदयशैलस्तस्य शृङ्गे शिखरे, कथञ्चित्केनापि प्रकारेण, लब्ध उदयो येन तेन प्राप्तोद्गमेन, निजलोचनं स्वनयनमेव चन्द्रो विधुस्तेन, अभिवर्धितानि वृद्धिंगतानि यानि कामार्णवसलिलानि कन्दर्पपारावारजलानि तेषां पूरैः प्रवाहैः, श्रोणिक्षोणीमण्डलं नितम्बमहीवलयम्, प्लावयन् प्लुतं कारयन् सन् , संलापे वार्तालापे पल्लवितं वृद्धिंगतं कुतुकं कौतूहलं यस्यास्तथाभूतामपि, अभिधातुं निगदितुम्, अनीशामसमर्थाम्, प्रियस्य वल्लभस्य वदनमेव मुखमेव चन्द्रः शशी तस्योपकण्ठे समीपे, नयने एव चकोरौ नयनचकोरौ लोचनजीवंजीवी तयोर्विहरणं भ्रमणं तस्मै, स्पृहयालुमपि स्पृहायुक्तामपि, लजया हिया, सम्मुखीभवितुं पुरस्तात्स्थातुम्, अपारयन्तीमशक्नुवानाम्, कुसुममिव मृदुलं कुसुममृदुलं पुष्पकोमलं ,तच्च तद्दयिताङ्गञ्चेति कुसुममृदुलदयिताङ्गं तस्य स्पर्शनमामर्शनं तस्मिन् लोलुपा लुब्धा तां तथाभूतामपि, कम्पमानां त्रस्यन्तीम्, एनां प्रियाम्, भृकुट्यौ च भ्रुवौ च, कपोलौ च गण्डौ च, चुबुकश्च हनुश्च, रदनवसनं च दन्तच्छदश्च, नयनं च लोचनं च, चूचुकं च स्तनाग्रभागश्चेति चुकुर्टीकपोलचुबुकरदनवसनचूचुकं तदादौ यस्य तत् , तच्च तत्पदं चेति तस्मिन् , परिचुम्बन्