________________
तृतीयो लम्भः
नासा तदीया मुखचन्द्रविम्वाद्विनिर्गलन्नव्यसुधोरुधारा | घनत्वमाप्तवरदालिमुक्तामणीतुलायष्टिरिव व्यलासीत् ||६४|| सदने तस्यास्तिष्ठञ्जगद्विजयी स्मरः
सपदि कुटिलवाणा दृशौ विशिखौ व्यधात् । सकलतरुणश्रेणी मर्मच्छिद्राहितरक्तता
मधिमुखमिते चैतेऽभातां पयोजसलक्षणे ||३५|| जनपक्षिवन्धाय पाशौ किं वेधसा कृतौ । तत्कर्णावुत्पलव्याजाज्जनदृक्पक्षिरक्षिणौ ॥६६॥ तदाननवसुत्रजं निशि हरन्निशानायको
वित्सरणिकानने विरचयन्गतिं वेगतः । दिवा वचन लीनतामुपगतोऽयमालक्ष्यते
न चेत्स वसुहारकः कथमयं कलङ्कोऽन्ततः ॥ ६७ ॥ मुखेन्दुश्चिवारिधेर्विततशैवलो वा घना
ܘܕ
बनालिरित्र चन्दिरं मुखमितस्ततः संगता | मनोजदहनोद्भवन्निविडधूमधारोऽथवा
मुखाब्जमधुपोत्करः किमथवा कृशाङ्गयाः कचः ||६८||
७३
आतनोति विदधाति, साध्वीं श्रेष्टाम्, माध्वीं मधुरमदिरां च, अधरयति तिरस्करोति । उपमा, मन्दाक्रान्ताच्छन्दः ॥ ६३ ॥
नासा तदीयेति --- तदीया तत्सम्बन्धिनी, नासा घ्राणम्, वनत्वं निविडत्वम्, आप्ता प्राप्ता, मुखमेव चन्द्रबिम्बं तस्माद् वदनशशिमण्डलात्, विनिर्गलन्ती निष्पतन्ती नव्या नूतना च या सुधायाः पीयूषस्योरुधारा दीर्घसन्ततिस्तद्वदिति विनिर्गलन्नव्यसुधोरुधारेव यद्वा, रदालयो दन्तपतय एव मुक्तामण्यो मुक्ताफलरत्नानि तेषां तुलायष्टिरिव तोलनदण्ड इव, व्यलासीत्-शुशुभे । उत्प्रेक्षा ॥ ६४ ॥
वदनसदन इति—तस्या गन्धर्वदत्तायाः वदनमेव सदनं तस्मिन् मुखमन्दिरे, तिष्ठन् निवसन्, जगद्विजयी त्रिभुवनजित्वरः, स्मरः कामः सपदि क्षिप्रम् कुटिलवावेव वक्रभ्रकुव्यावेव बाणासश्चापस्तस्मिन्, दृशौ नयने, विशिखो बाणौ, व्यधात् चकार, अतएव, मुख इत्यधिमुखमध्यग्रभागम्, पयोजसलक्षणे कमलतुल्ये, एते दृशौ, सकलतरुणश्रेण्या निखिलयुवसमूहस्य मर्मच्छिदया मर्मस्थानविघातेनाहिता प्रापिता या रक्तता लोहितता ताम्, इते च प्राप्ते च, अभाताम् शुशुभाते । रूपको प्रेक्षे । हरिणीच्छन्दः ॥६५॥
जनदृगिति - उत्पलानां नीलारविन्दानां व्याजं छलं तस्मात्, जनदृशो नरनयनान्येव पक्षिणो विहङ्गमास्तान् रक्षतो निधत्त इत्येवं शीलौ तस्या गन्धर्वदत्ताया, कर्णौ श्रवणे, जनदृश एव पक्षिणस्तेषां बन्धोऽवग्रहणं तस्मै, वेधसा ब्रह्मणा, कृतौ विहितौ किं पाशौ किं बन्धने, आस्तामिति शेषः । रूपकोत्प्रेक्षे ॥६६॥
तदाननवसुत्रजमिति- - तस्या गन्धर्वदत्ताया आननं मुखमिति तदाननं तस्य वसुव्रज एव किरणकलाप एव वसुव्रजो धनसमूहस्तम् ' वसुर्मयूखाग्निधनाधिपेषु' इति वैजयन्ती, हरन् चोरयन्, अयमेषः, निशानायकश्चन्द्रः, निशि रजन्याम्, वियत्सरणिराकाशमार्ग एव काननं वनं तस्मिन्, वेगतो रंहसा, गतिं गमनम्, विरचयन् कुर्वन्, दिवा दिवसे, क्वचन कुत्रापि, लीनतामन्तर्हितताम् उपगतः प्राप्तः, आलक्ष्यते दृश्यते, चेद्यदि, स निशानायकः, वसुहारको धनापहर्ता, न नो अस्ति, तर्हि, अन्ततो मध्ये, अयं दृश्यमानः कलङ्कः पापचिह्नम्, पक्षे लाञ्छनम्, कथं केन कारणेन, अस्तीति शेषः । अन्योऽपि कश्चित्कस्यचित्किमपि धनजातं चोरयित्वा रात्रौ वेगेन काननमार्ग समुल्लङ्घय कुत्रापि सुरक्षितस्थाने तिरोभवति तद्वचन्द्रोऽपीति भावः । श्लेषरूपकानुप्राणितोत्प्रेक्षा । पृथ्वीच्छन्दः ॥ ६७ ॥
मुखेन्दुरुचिवारिधेरिति—–मुखेन्दोदनविधो रुचिरेव कान्तिरेव वारिधिः सागरस्तस्य वितत