________________
७२
जीवन्धरचम्पकाव्ये सुगपगाशोभितहमप द्मिनीसृणालनुल्यो सुहशो महाभुजी । भुजङ्गवन्धाथमजेन निर्मिती विशालपाशाविव तो व्यराजताम् ॥ ५६ ।। सुतनुतनुलनाया विस्तृते वाहुशाग्य
___ मृदुलमसृणशोभे वाङ्गुलिश्रीप्रथाले । नखरूचिरलतान्ते मञ्जुगुञ्जद्विलोल
मरकतवलयालिव्यामृते ते व्यभाताम ।। ६०॥ शिरोधरे खञ्जनलोचनायाः कम्बुप्रतीपे किल पञ्चवाणः । जगत्त्रयं निर्जितमेतयेति रेखात्रयं मड्क्षु चकार वीरः ॥ ६१ ॥ जगदुरधरं तस्याः केचित्तु वक्त्रसुधाकरा
तिमविलसितं सन्ध्यारागं परे नवपन्नवम । कतिचन मुखाभाम्भोराशिप्रवालममी वयं
रदततिमणीरक्षालाक्षात्तमञ्जलमुद्रिकाम ॥ ६ ॥ वाणी तम्याः पिककुलकलाराबनिन्दाधुरीणा
पीयूपाणां वितरति हियं गोस्तनी न्यक्कगेति । पुण्डेक्षणां रसधनसितां खण्डितामातनोति
साध्वी मावीमधरयति च प्राज्यमाधुर्यपूरा ॥६३॥
सुरापगेति-सुरापगायां गङ्गायां शोभिता विराजिता या हेमपग्मिन्यः सुवर्णसरोजिन्यस्तासां मृणालानि विमानि तैस्तुल्यो सदृशो, सुदृशः सुलोचनायाः, तौ प्रसिद्धी, महाभुजी सुदीर्धवाह, भुजङ्गाना कामुकानां वधार्थ बन्धनाय, अजेन ब्रह्मणा, निर्मिती रचिनी, विशालपाशाविव दीर्घजाले इब व्यराजनाम्व्यशोभेताम् । उत्प्रेक्षा ॥ ५ ॥
सुतनुतनुलताया इति-मृदुला कोमला ममृणा स्निग्या च शोभा दीतिर्ययोस्ने, स्वाङ्गुलीनां निजहस्तशाखानां श्रियः शोभा एव प्रवालाः किसल्या ग्रयोस्ते, नखान्येव नखराण्येव रुचिरलतान्तानि सुन्दरपुष्पाणि ययोस्ते, मन्जु मनोहरं यथा स्यात्तथा गुन्नन्ति शब्दं कुर्वन्ति विलोलानि चपलानि च यानि मरकतवलयानि हरिन्मणिमयकटकास्तान्येवालयो भ्रमरास्तै व्याय॒ते, विस्तृते सुदीर्घे, सुतजुतनुलताया गन्धर्वदत्ताशरीरवल्लाः ते प्रसिद्धे, बाहुशाखे भुजशाखे, व्यभाताम् व्यराजताम् । रूपकालङ्कारः ॥६०॥
शिरोधर इतिखजनलोचनायाः खजरीटदृशः, गन्धर्वदत्तायाः कम्बुप्रीपे शङ्खमन्निभे, शिरोधरे कण्ठे 'शिरोधरो गला ग्रीवा कण्ठश्च धमनीधमः' इति धनंजयः, वीरः सुभटः, पञ्चवाणः कामः, एतयानया, जगत्त्रयं लोकत्रितयम्, निर्जितं निःशेपेण पराजितम्, स्वसौन्दर्यातिशयेनेति यावत, इ.येवं सूचनार्थमिव, मक्षु शीघ्रम्, रेखात्रयं चिह्नत्रयम्, चकार विदधे, किलेति वार्तायाम् । उत्प्रेक्षा ॥ ६॥
जगदुरधरमिति केचित्तु केचन तु कवयः तण्या गन्धर्वदत्तायाः, अधरं दशनच्छदम्, वक्त्रं मुवमेव सुधाकरश्चन्द्रस्तस्यान्तिके समीपे विलसितः शोभितस्तम्, संध्यारागं पितृप्रसूलोहितिमानम्, परेऽन्ये, नवश्चासौ पल्लवश्व तं नूतनकिसलयम्, कतिचन केचन, मुखाभा वदनकान्तिरेवाम्भोराशिः सागरस्तस्य प्रवालो विद्रुमस्तम्, जगदुः कथयाञ्चक्रुः, अमी-पुते, क्यम्, रदततयो दन्तपङ्क्ता एव मण्यो रत्नानि तेषां रक्षायें लाक्षात्ता जतुनिबद्धा या मजुलमुद्रिका सुभगावरोधिका ताम्, गदाम इति शेषः । रूपकालङ्कारः । हरिणीवृत्तम् ॥ ६२ ॥
वाणी तस्या इति--तस्या गन्धर्वदत्तायाः, प्राज्यं प्रकृष्टं यन्माधुर्य माधुरी तत्पूरयतीति प्राज्यमाधुर्यपूरा, प्रकृष्टमाधुरीनिभृता, पिककुलस्य कोकिलकलापस्य यः, कलारावो मनोहरशब्दस्तस्य निन्दायां
निपुणा, वाणी भारती, पीयूपाणां सुबानाम्, हियं पम् 'मन्दारं ह्रीस्त्रपा ब्रीडा' इत्यमरः, वितरति ददाति जनयतीत्यर्थः, गोस्तनी द्राक्षाम्, न्यक्करोति तिरस्करोति, पुण्ड्रेक्षणां पुण्ड्ररसालानाम्, रसेन घना रसघना रसनिविडा सा चासौ सिता च शर्करा चेति रसधनसिता ताम्, खण्डितां विगतमानाम्,