________________
तृतीयो लम्भः
अस्याश्च नितम्बतलं दुकूलस्वच्छजलविलसितसैकतमिव कामाब्धिनिमज्जनरुणतरणाय यौवनाग्निनिष्टप्न हैमकलशयुगलमिव कन्दर्पवास्त्रचक्रयानमिव शृङ्गारमहीपतिक्रीडार्शलवलयमिव व्यगजत ।
___ एतस्याः किल रोमराजिः, चन्दनव्याप्तवक्षोरुहभूमिधरमारोहतो दर्पकस्य मरकतसोपान पङ्क्तिरिव, सौन्दर्यतर्राङ्गणीविततसेतुरिव, नाभिवापिकामजनोद्युक्तस्य शम्बररिपुद्विपस्य गण्डमण्डलादुद्गच्छ-ती चञ्जरीकमालेव, दुर्वहस्तनभारवहनचिन्तया तानवमुपगतेन मध्येन समाश्रितालम्बनयष्टिरिव, नाभीवल्मीकमुखोद्वता कालभुजगीव, रुरुचे।
रोमराजिलतागुच्छौ कुचावस्या मृगीदृशः। चकर्पतुः कुमारस्य नयनच्छलपट्पदम् ।। ५६ ।। पयोधरोन्नतिस्तस्याः पुपोपाङ्गजकेकिनम् ।
हारविद्युल्लतोपेता नीलाम्बरविज़म्भिता ।। ५७ ।। स्तनौ सुमेपो रसपूर्णकुम्भौ विमुद्रितौ चूचुकसज्जतुभ्याम् । तस्या विधात्रा विनिपातभीत्या तो कीलितावायसशङ्कुना किम ॥ ५८ ॥
अस्थाश्चेति-अस्याश्च गन्धर्वदत्तायाश्च, नितम्बतलं कटिपश्चाभागः, दुकूलं क्षौममेव स्वच्छजलं निर्मलनीरं तेन विलसितं शोभितं यत्सकतं सिकतामयं तद्वत् , कामाब्धी कन्दर्पपयोधौ निमजन्तो ये तरुणा युवानस्तेषां तरणं प्लवनं तस्मै , यौवनाग्निना तारुण्यानलेन निष्प्तं सन्तप्तं यद् हैमकलशयुगलं सौवर्णकुम्भयुगं तद्वत् , वस्त्रेण परिवृतं वास्त्रं वास्त्रञ्च तच्चक्रयानश्चेति वास्त्रचक्रयानं कन्दर्पस्य कामस्य वास्त्रचक्रयानं वस्त्रपरिवृतचक्रवाहन मिति तथा तद्वत् , शृङ्गार आयरस एव महीपती राजा तस्य क्रीडाशैलस्य केलिपर्वतस्य वलयमिव मण्डलमित्र, व्यराजत व्यशोभत ।
एतस्या इति–एतस्याः खेचरसुतायाः किलेति वार्तायाम्, रोमराजिलॊमपङ्क्तिः , चन्दनेन व्याप्तश्चन्दनव्याप्तो मलयजपरिवृतः, स त्रासौ वक्षोरुहभूमिवरश्च कुचपर्वतश्चेति तम् , आरोहत उच्चटतः दपकस्य कन्दर्पस्य 'कंदपो दर्पकोऽनङ्गः कामः पञ्चशरः स्मृतः' इत्यमरः । मरकतसोपानपतिरिव हरिन्मणिमयनिश्रेणिपरम्परेव सौन्दर्यमेव लावण्यमेव तरङ्गिणी स्त्रवती तस्या विततसेतुरिव विस्तृतपुलिनमिव, नाभिरेव वापिका नाभिवापिका तुन्दीदाधिका तस्यां मजनेऽवगाहन उद्युक्तस्तत्परस्तस्य, शम्बररिपोर्मनसिजस्य द्विपो गजस्तस्य, गण्डमण्डल.त् कटप्रदेशात् 'गण्डः कटः' इत्यमरः । उद्गच्छन्ती समुत्पतन्ती, चञ्चरीकमालेब पट्पदश्रेणिरिव, दुःखेनोह्यत इति दुर्वहो दुर्भरः स चासौ स्तनभारश्च कुचभारश्चेति दुर्वहस्तनभारस्तस्य वहनस्य धारणस्य चिन्ता तया, तानवं कार्य्यम्, उपगतेन प्राप्तेन, मध्येनावलग्नेन कटिप्रान्तेनेति यावत् , समाश्रिता गृहीता चासावालम्बनयष्टिश्चाश्रयदण्डश्चेति समाश्रितालम्बनयष्टिस्तद्वत्, नाभीवल्मीकस्य तुन्दीवामलरस्य मुखादग्रभागादुगतोद्भूता, कालभुजीव कृष्णपन्नगीव, रुरुचे शुशुभे । उत्प्रेक्षा ।
रोमराजिलतागुच्छाविति-मृगीदृशः कुरङ्गालोचनायाः, अस्या गन्धर्वदत्तायाः, रोमराजिरेव लोमपतिरेव लता वल्ली तस्या गुच्छौ स्तवको, कुचो पयोधरौ 'स्तनः पयोधरः कुचो वक्षोज इति वर्णितः' इति धनञ्जयः । कुमारस्य जीवन्धरस्य, नयनस्य छलं व्याजं यस्य नयनच्छलः स चासौ षट्पदश्च भ्रमरश्च तम्, चकर्पतुराकृष्टं चक्रतुः । रूपकालङ्कारः ।। ५६ ॥
पयोधरोन्नतिरिति-हार एव मुक्कादामैव विद्युल्लता तडिद्वल्लरी तयोपेता सहिता, नीलाम्बरं नीलगगनमेव नीलाम्बरं नीलवस्त्रं तस्मिन् विजृम्भिता वृद्धिङ्गता, तस्या गन्धर्वदत्तायाः, पयोधरोन्नतिः पयोधरयोः स्तनयोः पक्षे पयोधराणां मेधानामुन्नतिरिति पयोधरोन्नतिः, अङ्गज एव केकी तम् कामकलापिनम्, पुपोप पुष्टं चकार । श्लेषानुप्राणितो रूपकालंकारः ।। ५७ ॥
स्तनाविति-तस्या गन्धर्वदत्तायाः, तौ प्रसिद्धौ, स्तनी कुचौ, चूचुकसज्जतुभ्यामग्रभागोत्तमलाक्षाभ्याम्, विमुदितौ सम्यगवरुध्य मुद्रया चिह्निती, सुमेषोः पुष्पेषोः कामस्येति यावत् , रसेन पूर्णी रसपूर्णौ तौ च तो कुम्भौ च कलशो चेति रसपूर्णकुम्भौ विधात्रा ब्रह्मणा, विनिपातस्य भीतिस्तया उन्मुद्रणभयेन, आयसशङ्खना लोहकीलकेन, कीलितौ खचितो, किमिति वितर्के । उत्प्रेक्षा ।। ५८ ॥