________________
जीवन्धरचम्पूकाव्ये
कर्तुमारभन्त । तत्र निजकान्तां कोप कलुपितस्वान्तामाध्याय कश्चिदाह । प्रसारय दृशं पुरः क्षणमिदं वनं विन्दतां
१
७८
स्थलोत्पलकुलानि वै कलय तन्वि मन्दस्मितम् । पतन्तु कुसुमोच्या दिशि दिशि प्रहृष्टालयः
स्फुटीकुरु गिरं पिकः सपदि मौनमाढौकताम् ॥ ५ ॥ परिफुल्लनवपल्लवतल्लजाधरपुटां विकचकुसुममन्दहासां चञ्चरीकचूचुकमे चकितगुलुच्छस्तनयुगलां वासन्तीलतामन्यामिव लताङ्गीं पश्यन्तमात्मानं प्रति कुपितां प्रेयसी परिसान्त्वयितुकामः कश्विदेवमत्रवीत् ।
सञ्चारिणी खलु लता त्वमनङ्गलक्ष्मी
रम्लानपल्लवक प्रमदालिजुष्टा । यस्या गुच्छयुगलं कठिनं विशाल
शास्त्रे शिरीपसुकुमारत मे मृगाक्षि ।। ६ ।। उपरिजतरुजार्थं वामहस्तेन काचिद्
विधृतसुरभिशाखा सव्यहस्तप्तकाञ्ची । अमलकनकगौरी निर्गलन्नीविवन्धा
नयनसुखमनन्तं कस्य वा द्राङ्न तेनं ॥ ७ ॥
वास्तुविचित्राद्भुता ताम्, पत्ते उच्चैस्तनेषु समुन्नतेषु शिखरेष्वग्रभागेषु शोभितैविलसितैः पत्रैलैर्विचित्रामद्भुताम्, अनेकैर्बहुभिर्विटपैर्भुजङ्गः संस्पृष्टे संमर्दिते पयोधरतटे स्तनतीरे यस्यास्तामभिसारिकाम, पढ़ेंऽनेकविटपैर्बहुशाखाभिः संस्पृष्टमास्टष्टं पयोधरतटं मेघतीरं यया ताम् । श्लिष्टोपमा । तत्रा रामवीथ्याम्, कोपेन क्रोधेन कलुषितं मलिनं स्वान्तं चित्तं यस्यास्ताम्, निजकान्तां स्ववल्लभाम्, आध्याय विचार्य, कश्चित्कोऽपि युवा, आह कथयति ।
प्रसारयेति — हे तन्वि हे कृशाङ्गि ! पुरोऽग्रे दृशं दृष्टिम्, प्रसारय क्रोधजन्य निमीलनं त्यक्त्वा प्रसूतां कुरु, येन, इदमेतत्, वनं गहनम् वै निश्चयेन, क्षणं क्षणकालं यावत्, स्थलोत्पलानां स्थलारविन्दानां कुलानि समूहान् विन्दतां लभताम्, मन्दस्मितं मन्दहसितम्, कलय धारय, येन दिशि दिशि प्रतिकाष्टम्, प्रहृष्टाः प्रसन्ना अलयो भ्रमरा यैस्ते तथाभूताः, कुसुमोच्चयाः पुप्पसमूहाः, पतन्तु वर्पन्तु, गिरं वाणीम्, स्फुटीकुरु प्रकटय, येन, पिको वनप्रियः सपदि झटिति, मौनं लज्जाजन्यं तूष्णीम्भावम्, आढोकताम् प्राप्नोतु | पृथ्वीच्छन्दः ॥५॥
परिफुल्लेति – परिफुल्लाः समुल्लसिता ये नवपल्लव तल्लजाः प्रत्यग्र किसलयश्रेष्ठा एवाधरपुढं दन्तच्छदपुढं यस्यास्ताम्, विकचानि प्रफुल्लानि कुसुमानि पुष्पाण्येव मन्दहासो मन्दस्मितं यस्यास्ताम्, चञ्चरीकचूचुकाभ्यां भ्रमरस्तनाग्राभ्यां मेचकितं मलिनं गुलुच्छस्तनयुगलं स्तवककुचद्वन्द्वं यस्यास्ताम्, वासन्तीलतां माधवीवल्लीम् अन्यां द्वितीयाम्, लताङ्गीमिव ललनामिव पश्यन्तमवलोकयन्तम्, आत्मानं स्वम्, प्रतिकुपितां कोपयुक्ताम्, प्रेयसी प्रियाम्, परिसान्त्वयितुकामः शमयितुमनाः, कश्चित्कोऽपि युवा, एवमनेन प्रकारेण, अब्रवीत् - जगाद |
सञ्चारिणीति — हे मृगाति हे मृगलोचने ! खलु निश्चयेन, अनङ्गलक्ष्मीः कामश्रीः, त्वम्, सञ्चारिणी सञ्चरणशीला, लता वल्लरी, असीति शेषः, कथम्भूता त्वमिति चेत् ? अम्लानावशुष्कौ पल्लवी किसलयावित्र करौ हस्तौ यस्याः सा, प्रमदालिभिः प्रहृष्टसखीभिरेव प्रमदालिभिः प्रमत्तभ्रमरैर्जुष्टा सेविता यस्यास्तव, कठिनं कठोरम्, कुचद्वन्द्वमिति शेषः, गुलुच्छ्रयुगलं स्तवकयुगम्, शिरीपादपि कपीतनादपि सुकुमारत मे मृदुलतमे बाहू इति शेषः, विशालशाखे सुदीर्बलते स्त इति शेषः । वसन्ततिलकावृत्तम् ॥ ६ ॥
उपरिजतजार्थम् — उपरिजमूर्ध्वोत्पन्नं यत्तरुजं पुष्पं तस्मादिमित्युपरिजतरुजार्थम् वामहस्तेन १. उदञ्चय ब० । २. ममन्दं ब० ।