________________
जीवन्धरचम्पूकाव्ये वीणा गन्धर्वदत्ताया मधुरा चित्तहारिणी ।
कुलोचिता बभूवेयं कुमारप्राप्तिदृतिका । ३५ ।। अथ जलदजलथ्यो दशङ्कां वितन्वन
मुखरितसकलाशाचक्रवालान्तरालः । निखिलपुरवधूटीचित्तहारी विशेपा
___ त्समभवदिह मन्द्रस्तूर्यमूर्च्छद्विरावः ।। ३६ ॥ तदा दिनदीपायितेन काष्ठाङ्गारेण कुप्यक्रयविक्रययोग्यो वैश्यसुतः कथं स्त्रीरत्नयोग्य इति सन्धुक्षिताः क्षितिपतयो गतमतयः सर्वाभिसारेण चमं पुरोधाय विमूढमनसः संयुगमारभन्त ।
इह खलु कुमारोऽयं विद्याधरैः स्वबलावृतै
जयगिरिरिति ख्याते मत्तद्विपे विनिविष्टवान् । प्रतिभटघटाटोपं भिन्दन्नुदारपराक्रमो
दिशि दिशि सपत्नांस्तांस्तांल्लीनांश्चकार निकारतः ।। ३७ ।। रत्नम्तम्भविजृम्भितामलरुचा व्याप्ताखिलाशान्तरा
मेकत्रोदितकोटिसूर्यपटलीसंदीप्तिशङ्कावहाम । शालां तत्र च पद्मरागखचितां वेदों व्यधात्तत्क्षणं
सर्वेपां हृदयस्थरागलहरी मूर्तामिवासौ वणिक् ॥३८॥
वीणा गन्धर्वदत्ताया इति-मधुरा प्रियस्वरा, चित्तहारिणी मनोहारिणी, कुलोचिता कुलयोग्या, गन्धर्वदत्ताया खेचरसुतायाः, इयं जीवन्धरकरगता, वीणा परिवादिनी, कुमारस्य जीवन्धरस्य प्राप्ती लाभे दूतिका संदेशवाहिनीव, बभूव-अजायत ॥ ३५ ॥
अथ जलदजलध्योरिति-अथानन्तरम्, इह स्वयंवरमण्डपे, जलदश्च जलधिश्चेति जलदजलधी तयोर्मेघसागरयोः, नादस्य गर्जितस्य शङ्का संदेहस्तम्, वितन्वन् प्रसारयन् , मुखरितं वाचालितं, सकलाशाचक्रवालस्य निखिलदिक्समूहस्यान्तरालं मध्यावकाशो येन सः, निखिलानां समस्तानां पुरवधूटीनां नगरयुवतीनां चित्तं मनो हरतीत्येवं शीलः, मन्द्रो गभीरः, तूर्याणां वादिनविशे पाणां मूर्छन्वर्धमानो विरावो विशिष्टशब्दः विशेषादाधिक्येन, समभवत्-अजायत । मालिनीवृत्तम् 'ननमयययुतेयं मालिनी भोगिलोकः' इति लक्षणात् ॥ ३६॥
तदेति तदा तस्मिन् काले, दिने दिवसे दीप इवाचरीति दिनदीपायितस्तेन, निष्प्रभेणेति यावत् , काष्टाङ्गारेण कृतनेन, कुप्यानां भाण्डानां क्रयविक्रययोर्योग्योऽर्हः, वेश्यसुत उरुजपुत्रः, कथं केन प्रकारेण, स्त्रीरत्नयोग्यः श्रेष्टललनाप्राप्त्यहः, भवेदिति शेषः, इत्येवम्, सन्धुक्षिताः समुत्तेजिताः, गतमतयो मूर्खाः, विमूढं हिताहितविचाररहितं मनो हृदयं येषां ते, क्षितिपतयो राजानः, सर्वाभिसारेण सर्वारम्भेण, चमू सेनाम्, पुरोधायाने कृत्वा, संयुगं समरम्, आरभन्त-आरेभिरे ।
इह खल्विति-इह लोके, खलु निश्चयेन, स्वबलावृतैः स्वकीयपृतनापरीतैः, विद्याधरैः खेचरैः, उपलक्षितः, जयगिरि रिति 'जयगिरिः' इति नाम्ना, ख्याते प्रसिद्धे, मत्तद्विपे गन्धगजे, विनिविष्टवानध्यारूढः, प्रतिभटानां शत्रूणां घटायाः गजगणस्याटोपं विस्तारम्, भिन्दन् खण्डयन् , उदारो महान् पराक्रमो विक्रमो यस्य सः, अयं कुमारो जीवन्धरः, तान् सम्मुखायातान् , सपनान् शत्रून् 'रिपौ वैरिसपत्नारिद्विपद्वेषणदुहृदः' इत्यमरः, दिशि दिशि प्रतिकाष्ठम्, निकारतो दुःखात् लीनानन्तर्हितान् , चकार विदधे । सर्वे रिपत्रः पराजिता इति भावः । हरिणीच्छन्दः ॥ ३७ ॥
रत्नस्तम्भेति-असौ वणिक् गन्धोत्कटवैश्यः, तत्र राजपुरनगरे, रवस्तम्भानां मणिमयस्तम्भानां विजम्भिता वृद्धिंगता यामलरुक् स्वच्छदीप्तिस्तया, व्याप्तमाच्छादितमखिलाशानां निखिलकाष्टानामन्तरमवकाशो यस्यां ताम्, एकत्रकस्मिन् स्थान उदितोद्गता या कोटिसूर्याणां कोटिप्रमितदिवाकराणां पटली समूह