SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ नृतीयो लम्भः आदाय तामयमो करकौशलानि तन्त्र्यां खगेशतनया निजचिनमग्मिन । संगीतधीरपरिपञ्च शिरःप्रकम्पं तेने कृतनमुखराजगणोऽपि लजाम् ॥३२।। कुमारवरवल्लकीगुणरवेण सर्वे मृगा विहाय मृदु शाढलं विदधिरे क्षणात्स्तब्धताम् । स्वरश्च जिनशारदाश्रवसि शीर्षकम्पापतद् ___वदान्यतरुपल्लवे पदमहो विधत्ते स्म सः ।। ३३ ।। तावत्मा गन्धर्वदत्ता पराजयमेव जयं म यमाना जीलातरलनयनप्रमृतकटाजदुग्धधाग दिशि दिशि किरन्ती वेत्रवतीकरकलितां मालिकामादाय जीवकस्य वक्षस्यामुमोच । सौभाग्याम्बुधिवीचिकेव विलसद्वनःस्थलीसैकते शंसन्ती मुकृतेन्दुनन्ददुदयं जीवन्धरस्वामिनः । मालासावचकादुरःस्थलबसलक्ष्मीकटाक्षावली प्रक्षिता विजयाय भाविसमरे मालेव वीरश्रिया ॥ ३४ ।। कन्यया गन्धर्वदत्तया, समर्पिता प्रदत्ताम् , निजकरालङ्कारभूतां स्वहस्ताभरणभूनाम , सुघोपामेतन्नाभवान , वीणां बोपवम् , परिजग्राह गृहीतवान् । . आदायेति-अथो तदनन्तरम्, अयं जावन्धरः, तां वीगाम्, आदाय गृहीत्वा, तन्न्यां वागायाम, करकौशलानि हत्तचातुर्याणि, खगेशतनया गन्धर्वदत्ता, अस्मिन् जीवन्धरे, निजचित्तं स्वकीयमनः, संगीतधीराणां संगीतविदुषां परिपसभा च, शिरःप्रकम्पं मूर्धान्दोलनम्, कृतन्त्रः काष्टाङ्गारो मुखं प्रधानो यस्येति कृतघ्नमुखः स चासौ राजगणश्च नृपसमूहश्चेति तथा, सोऽपि, लजां पाम्, तेने विस्तारयामास ॥३२॥ कुमारवरवल्लकीति-कुभारस्य जीवन्वरस्य या वरवल्लकी श्रेष्टवीणा तस्या गुणस्तन्त्रं तस्य रवः शब्दस्तेन, सर्वे निखिलाः, मृगाः कुरङ्गाः, मृदु कोमलम्, शालं शप्पम, हरिद्धासमिति यावत् , विहाय न्यक्त्वा, क्षणादल्पेनैव कालेन, स्तब्धतां निश्चलताम, विधिरे चक्रिरे, वीणारावं श्रुन्वा हरिणा भोजनाद्विरम्य निश्चला बभूवुरिति भावः । सः प्रसिद्धः, स्वरश्च वीणाशब्दश्च, शीर्षकम्पेन मूर्धान्दोलनेनापतन्तः स्खलन्तो वदान्यतरुपल्लवाः कल्पवृक्षकिम्पलया यस्मात्तस्मिन् , जिनशारदाश्रवसि जिनसरस्वतीकणे, पदं स्थानम्, वियत्ते स्म कुरुते स्म । इन्यहो आश्चर्यम् । सरस्व अपि तद्रीणाशब्दं शुश्रावेति विस्मयस्थानम् । पृथ्वीवृत्तम् ॥ ३३ ॥ तावदिति-तावत् तावता कालेन, सा गन्धर्वदत्ता विद्याधरतनूजा, पराजयसेव पराभवमेव, जयं विजयम्, मन्यमाना बुध्यमाना, बीलया लजया तरले चञ्चले ये नयने ताभ्यां प्रमृता निःमृत्य बहिर्विस्तृता ये कटाक्षाः केकरास्त एव दुग्यधारा क्षीरप्रवाहस्ताम्, दिशि दिशि प्रतिकाष्ठम्, किरन्ती विक्षिपन्ती, वेत्रवनीकरकलितां प्रतीहारीहस्तस्थिताम् , मालिका स्त्रजम्, आदाय गृहीत्वा, जीवकस्य विजयासुतस्य, वासि भुजान्तरे, आमुमोचामुक्तवती । सौभाग्याम्बुधिवीचिकेवेति-असी माला सा स्त्रक, जीवन्धरस्वामिनः सत्यन्वरनृपसुतस्य, वक्षःस्थल्येव सैकत मिति वक्षःस्थलीसैकनं विलसच्छोभमानं यद् वक्षःस्थलीसैकतमुरःस्थलसिकतामयं तस्मिन् , सुकृतमेव पुण्यमेवेन्दुश्चन्द्रस्तस्य नन्दन् विलसन्य उदय उद्गमस्तम्, शंसन्ती सूचयन्ती, सौभाग्यमेव बल्लभाप्रियन्चमेवाम्बुधिः सागरस्तस्य वीचिकेव लहरीव, उरःस्थले वक्षःप्रदेशे वसन्ती निवसन्ती या लक्ष्मी राज्यश्रीस्तस्याः कटाक्षाणां केकराणां यावली पङ्क्तिस्तद्वत, भाविसमरे भविष्ययुद्ध, विजयाय, विजयलाभाय, वीरश्रिया वीरलक्ष्म्या, क्षिप्रा न्यस्ता, मालेव निव, अचकात्-अशोभत । 'चकास दीप्ती' इत्यस्य लङि रूपम् । उत्प्रेक्षा । शार्दूलविक्रीडितवृत्तम् ॥ ३४ ॥ १ सा भाग्याम्बुधि ब० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy