________________
जीवन्धरचम्पृकाव्ये मिव सौभाग्यस्य, मृर्त्यन्तमिव लक्ष्म्याः ,अमृतवतिरिव भूपतिदशाम , विशालनयनविलासविजितनीलोत्पला गन्धर्व दत्ता याप्ययानमामह्य स्वयंवरमण्डपमवततार | ततः करसगेमहप्रसृतकान्तिपारम्परी
प्रक्लृप्तनवपल्लवभ्रमसमागतालिस्वरैः । परीतवरवल्लकीमृदुलतानगीतादिभि
यजेष्ट खगसुन्दरी सकलदेशपृथ्वीपतीन ॥३०॥ खगेशतनयाकराञ्चितविपञ्चिकामाधुरी
रसं श्रवणभाजनैः सकलगीतविद्याविदः । निपीय वनितारदच्छदमिहाधरं मेनिरे
__ सुधामपि सुरोद्धृतां मधुपपानयोग्यं मधु ॥३१|| तदनु प्रत्यक्षपञ्चशरः पञ्चशतमित्रजनपरिवृतो जीवन्धरः, स्वयंवरसभाजिरं समागत्य, वीणाकलाकुशलान्प्राज्ञाग्रेसरान्गुणदोपपरीक्षायां विधाय, अभिधाय च नियोगिजनानीतासु त्रिचतुरासु वीणासु केशरोमलवादिकं दोषम् , अतिसंतोपपरवशया कन्यया समर्पितां निजकरालङ्कारभूतां सुघोपां नाम वीणां परिजग्राह ।
रसभूपालस्य राजधानीव नृपावासनगरीव, लावण्यमेव सौन्दर्यमेव सुवापयोनिधिः पीयूपपारावारस्तस्य वीचयस्तरङ्गास्तासाम्, वेला तटोच्छ्रासः, 'पाली वेला तटोच्छ्रासः' इति धनंजयः, नवयौवनस्य नृतनतारुण्यस्य, सर्वस्वमिव सारभूतधनमिव, सौभाग्यस्य वल्लभप्रियतायाः सञ्जीवनमिव प्राणप्रदमिव, लक्ष्म्याः श्रियाः मूर्त्यन्तरमिव द्वितीयप्रतिमेव, भूपतिदृशां नरेन्द्रनयनानाम् , अमृतवतिरिव सुबाशलाकेव, विशालनयनयोरायतलोचनयोविलासेन शोभातिशयेन विजिते पराभूते नीलोत्पले नीलकमले यया सा।
ततः करसरोरुहेति-ततस्तदनन्तरम्, खगसुन्दरी गन्धर्वदत्ता, करसरोरुहाभ्यां पाणिपद्माभ्यां प्रसृता निःसृत्य बहिर्व्याप्ता या कान्तिपारम्परी दीप्तिश्रेणिस्तया प्रक्लुप्तेन रचितेन नवपल्लवभ्रमेण प्रत्यग्रकिसलयसंदेहेन समागताः सम्प्राता येऽलयो भ्रमरास्तेषां स्वरैर्गुञ्जनशब्दैः, परीता व्याप्ता या वरवल्लकी श्रेष्टवीणास्तस्या मृदुलेन कोमलेन तानेन स्वरावरोहारोहक्रमेणोपलक्षिता ये गीतादयः संगीतप्रभृतयस्तैः, सकलदेशपृथ्वीपतीन् निखिलजनपदजगतीपतीन् , व्यजेष्ट विजितवती । 'विपराभ्यां जेः' इत्यान्मनेपदम् । पृथ्वीवृत्तम् ॥ ३० ॥
खगेशतनयेति-गीतविद्यां विदन्तोति गीतविद्याविदः सकलाश्च ते गीतविद्या विदश्चेति सकलगीतविद्याविदः समस्तसंगीतज्ञजनाः, खगेशतनयाकरे गन्धर्वदत्ताहस्तेऽञ्चिता शोभिता या विपञ्चिका वीणा तस्या माधुरी रसमाधुर्यनिःस्यन्दम् , श्रवणभाजनैः कर्णपात्रः, निपीय नितरां पोल्वा, इहलोके, वनितारदच्छदं ललनौष्टम् , अधरमबमम् पक्षेऽधरसंज्ञितम् , सुवामपि पीयूपमपि, सुराया मदिराया उद्धृतां निष्कासितां पक्षे सुरैर्देवैरुद्धता ताम् , मधु पुप्पासवम् . मधुपानां मधुपायिनां नीचानामिति यावत् पानयोग्यं पानार्हम् , पक्षे मधुपानां भ्रमराणां पानयोग्यम् , मेनिरे मन्यन्ते स्म । रूपकश्लेपव्यतिरेकाः । पृथ्वीच्छन्दः ॥३१॥
तदन्विति-तदनु तदनन्तरम् , प्रत्यक्षश्चासौ पञ्चशरश्चेति प्रत्यक्षपञ्चशरो दृग्गोचरकामः, पञ्चशतं ये मित्रजनाः सुहृत्समूहास्तैः परिवृतः परिवेष्टितः, जीवन्धरः सात्यन्धरिः, स्वयंवरसभाजिरं स्वयंवरपरिपदङ्गाणम् , समागत्य सम्प्राप्य, वीणाकलायां विपञ्चीकलायां कुशला निपुणास्तान् , प्राज्ञाग्रेसरान् विद्वच्छृष्टान् , गुणदोषपरीक्षायां गुणावगुणनिरीक्षायाम् , विधाय कृत्वा, नियोगिजनैः सेवकजनैरानीताः प्रापितास्तासु, तिस्रश्चतस्रो वेति त्रिचतुरास्तासु, वीणासु परिवादिनीषु, केशरोमलवादिकं केशरोमलवप्रभृतिकम् , एपां लक्षणानि संगीतशास्त्रे द्रष्टव्यानि, अभिधाय च निगद्य च, अतिसंतोषस्य परवशा तया हातिशयाधीनया,
१. विधाय चव०।