SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्भः ६७ तदनन्तरं विद्याधराधिपतिर्गरुडवेगनामा समागत्य वधूवरस्य सुरदम्पतीसन्निभस्य स्फटिकमणिपट्टके विनिवेशितस्य करनखर कान्तिद्विगुणितधावल्याभिर्भुजवंशविगलन्मुक्ताभरीसम्भावनासम्पादिकाभिर्बाहुभुजगफणामाणिक्यायितमणिमयकुम्भविगलत्पयोधराभिरभिपक - मङ्गलं निर्वर्तयामास। क्षीराब्धिडिण्डीरचयायमानं लक्ष्णं दुकूलं वसनं वसानौ । तो प्राङ्मखं भूपणगेहमध्ये निवेशिता बनविकीर्णपट्टे ।। ३६ ॥ अनयोः कान्तवपुपि भूपणानां च भूपणे । आकल्पकल्पना ननं मङ्गलैकफला भवेत ॥४०॥ यद्वा भूपणवृन्द्रस्य शोभासंपादकाङ्गके। तयोर्नैपथ्यक्लृप्तिम्तु दृष्टिदोपरय हानये ।। ४१ ॥ सीमन्तं परिकल्प्य खञ्जनहशो वक्त्रप्रभानिम्नगा मार्गाभं सुममालिकां च विदधे तत्फेनपुञ्जायिताम् । आस्ये नीलललाटिकां सहचरीवक्त्रेन्दुलक्ष्म्यायिता मक्ष्णोरञ्जनमाननाक्रमकृतोः सीमन्तरेखामिव ॥४२।। स्तस्याः सन्दीप्तिः सन्तेजस्तस्याः शङ्कावहां सन्देहोत्पादिकाम, शालां विवाहमण्डपम्, सर्वेषां निखिलानाम्, मूर्ती शरीरधारिणीम्, हृदयस्थरागलहरीमिव चित्तस्थितप्रीतिपरम्परामिव, पद्मरागखचितां लोहितकमणिनिस्यूताम्, वेदीञ्च वितर्दिकाञ्च, तक्षणं तत्कालम्, व्यधातू-चकार । शार्दूलविक्रीडितच्छन्दः ॥३८॥ तदनन्तरमिति–तदनन्तरं तत्पश्चात् , गरुडवेगनामा गरुडवेगाभिधानः, विद्याधराणां खेचराणामधिपतिः स्वामांति विद्याधराधिपतिः, समागय विजयार्धादागत्य, जाया च पतिश्चेति दम्पती 'जायाया जम्भावा दम्भावश्च वा निपात्यते' इति निपातनाजायाशब्दस्य स्थाने दम्भावः, सुराणां देवानां दम्पती मिथुनं तयोः सन्निभस्तस्य, स्फटिकमणिपट्टके सितोपलफलके, विनिवेशितस्याधिष्ठापितस्य, वधूवरस्य जायापत्योः, करनखराणां हस्तनखानां कान्त्या दीप्त्या द्विगुणितं द्विगुणीभूतं धावल्यं श्वैयं यामां ताभिः, भुजवंशभ्यो बाहुवेणुभ्यो विगलन्ती निःसृत्य पतन्ती या मुक्ताझरी, मौक्तिकसन्ततिस्तस्याः सम्भावना समुत्प्रेक्षा तस्याः कारिकास्ताभिः, बाहुभुजङ्गानां फणा भोगास्तासां माणिक्यायिता रत्नवदाचरन्ती ये मणिमयकुम्भा रत्ननिर्मितकलशास्तेभ्यो विगलन्त्यः पतन्त्यो याः पयोधारा जलधारास्ताभिः, अभिषेकमङ्गलं स्नानमङ्गलम्, निवर्तयामास रचयामास । क्षीराब्धीति-क्षीराब्धेर्दुग्धसागरस्य डिण्डीरचय इव फेनसमूह इवाचरतीति क्षीराब्धिडिण्डीरचयायमानम्, श्लणं सूक्ष्मम्, दुकलं वसनं, चौमं वस्त्रम्, वसाते इति वसानो दधानी तो जायापती, भूपणगेहमध्ये प्रातिहार्यगृहाभ्यन्तरे, वज्रविकीर्णपट्टे हीरकखचितफलके, प्राङ्मुखं पूर्ववदनं यथा स्यात्तथा, निवेशितो स्थापितौ ॥ ३६॥ अनयोरिति-अनयोर्गन्धर्वदत्ताजीवन्धरयोः, भूपणानाञ्चाभरणानामपि, भूपणे शोभाधायके, कान्तवपुपि कमनीयकलेवरे, आकल्पानां भूषणानां कल्पना निक्षेपः, नूनं निश्चयेन, मङ्गलमेवैकमद्वितीयं फलं प्रयोजनं यस्यास्तथाभूता, भवेत् स्यात् । सुन्दरे वपुपि किमाभरणे रिति भावः ॥ ४० ॥ यद्वेति-यद्वा पक्षान्तरे, अथवेति यावत् , तयोर्जायापत्योः, भूपणवृन्दस्याभरणसमूहस्य, शोभासम्पादकञ्च तदङ्गकञ्चेति शोभासम्पादकाङ्गकं तस्मिन् , सौन्दर्याधायकशरीरे, नेपथ्यक्लूप्तिराभरणरचना, दृष्टिदोपस्य दृग्दोषस्य, हानये निरासाय, भवेदिति पूर्वोक्तक्रियया सम्बन्धः । तु पादपूरणे ॥ ४ ॥ सीमन्तमिति-सहचरी प्रसाधनसखी, खञ्जनदृशः खञ्जरीटलोचनायाः, गन्धर्वदत्ताया इति यावत, वक्त्रप्रभा मुखदीप्तिरेव निम्नगा नदी तस्या मार्गस्य वयंन इवाभा दीप्तिर्यस्य तम् । सीमन्तं केशवेशम्, 'शकन्ध्वादिषु पररूपं वाच्यम्' इति पररूपम्, परिकल्प्य विरच्य, तस्या वक्त्रप्रभानिम्नगायाः फेनपुञ्ज इव
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy