________________
६१
तृतीयो लम्भः मोठ्ये याते चतुरिमरसेऽप्यागते तत्कृशाङ्ग-या
मध्यं सूक्ष्म जघनवलयं भूधराभं विभाति ।।१८॥ मुग्वेन्दु लाक्ष्याः सितमचिरुचिं निन्दतितरां
ध्रुवा चापाटोपं सपदि झपकेतोः कलयतः । कुचौ मन्दं मन्द लिकुचतुलनां कन्दलयतः
शनैः पादन्यासो मदकरमराली विजयते ॥२०॥ सा राजपुरे साराकारा स्वयमद्वितीयापि वल्लकीविजयिनो यूनो द्वितीया भविष्यतीति दैवज्ञोपज्ञवचनविनम्भविजम्भिचिन्तो महीकान्तः कान्तया सह संमन्त्र्य राजपुरोपवनालङ्कारस्य सागरसेननाम्नो जिनराजस्याधिपरिसरं संजातां युवयोः प्रीतिलतां शनैः पल्लवितामद्य फलितां चिकीर्षुस्त्वदागमनाय मां प्राहिणोत् ।
नाम्ना धरोऽहं तव नौविनाशविभ्रान्तिमापद्य महीध्रमेनम् । आनीतवानित्यभिधाय सोऽयं खगोऽधरोष्टं घटयाञ्चकार ।।२।।
श्रीदत्तोऽपि तदाकण्य बहुधा मुमुदेतराम् । नष्टस्यार्थस्य सम्प्राप्तिः कामदोग्ध्री मुद्रां न किम् ॥२२
विग्रहं शरीरम्, त्यक्तुकामे मोक्तुमनसि, सति, मन्मथः कामो, द्वारे प्रवेशमार्गे चरीति द्वारचारो यस्य तद् मन्मथद्वारचारं तस्मिन् , तारुण्ये च यौवने च, आगमने रसिकं तस्मिन् आगमनप्रीतियुक्त, सति, मौव्ये मौग्ध्ये, याते गते सति, चतुरिमरसेऽपि चातुर्यस्नेहेऽपि, आगते प्राप्ते सति, सा चासो कृशाङ्गी चंति तकृशाङ्गी तस्यास्तत्तन्वगया मध्यमवलग्नं कटिरिति यावत , सूचमं कृशम्, जघनवलयं नितम्बमण्डलम्, भूधरा पर्वततुल्यम्, विभाति शोभते । मन्दाक्रान्ताच्छन्दः ॥१६॥
मुखेन्दरिति-लोले चपले अक्षिणी नयने यस्यास्तस्याः, मुखेन्दुवदनचन्द्रः, सितरुचेश्चन्द्रस्यरुचिः शोभा ताम्, अतिशयेन निन्दतीति निन्दतितराम्, ध्रुवी भ्रकुट्यो, झपकतोः कामस्य चापाटोपं धनुविस्तारम्, सपदि झटिति, कलयतः प्राप्नुतः, कुचौ स्तनी, मन्दं मन्दं शनैः शन, लिकुचतुलनां डहुसादृश्यम् 'लकुचो लिकुचा डहुः' इत्यमरः, पादन्यासश्वरणनिक्षेपः, शनैः क्रमेण, मदकरमराली दृप्तहंसीम्, विजयते पराजयते । उपमा । शिखरिणीच्छन्दः ॥ २० ॥
सा राजपुर इति–साराकारा श्रेष्ठाकृतिः सा गन्धर्वदत्ता, स्वयम् अद्वितीयापि प्रथमापि, राजपुरे एतन्नामनगरे, बल्लीविजयिनो वीणा विजयिनः, यूनस्तरुणस्य, द्वितीया सहचरी-अद्वितीया द्वितीया कथं भवेदिति विरोधः परिहारस्तुतः । भविष्यताति, देवजेन ज्योतिर्विदा प्रथमं ज्ञातमिति देवज्ञोपनं तच्च तद वचनञ्च तस्य विस्रम्भेण विश्वासेन विम्भिता वर्धिता चिन्ता यस्य तथाभूतः महीकान्तो नृपः, कान्तया वल्लभया, सह सार्धम्, संमन्व्य विमर्श कृत्वा, राजपुरोपवनत्य राजपुरोद्यानस्यालङ्कार आभरणं तस्य तत्र स्थितस्येति यावत् , सागरसेननाम्नः सागरसेनाभिधानस्य, जिनराजस्य सुनिराजस्य, अधिपरिसरं निकटे, संजातां समुत्पन्नाम्, शनैः क्रमेण, पल्लवितां किसलयिताम्, युवयोर्भवतोः, प्रीतिलतां स्नेहवल्लरीम्, फलितां फलयुक्ताम्, चिकापुः कर्तुमिच्छुः सन् , त्वदागमनाय भवदागमनाय, मां त्वत्पुरो वर्तमानम्, प्राहिणोत् प्रेपयामास ।
नाम्नेति-नाम्ना नामधेयेन 'प्रकृत्यादिभ्य उपसंख्यानम्' इति तृतीया, धरः इतिनामा अहम्, तब भवतः, नावो विनाशो नौविनाशस्तस्य विभ्रान्तिस्तां तरणिध्वंसश्रमम्, आपाद्योपाद्य, एनं महीनं विजयार्धपर्वतम्, आनीतवानस्मि प्रापितवानस्मि, न्वामिमिति शेपः, इत्येवम्, अभिधाय निगद्य, सोऽयं खगो विद्याधरः, अधरोष्ठं दन्तच्छदयुगलम्, घटयाञ्चकार निमोलयति स्म तूष्णींबभूवेति भावः ।। २१ ॥
श्रीदत्तोऽपि-श्रीदत्तोऽपि वैश्यवरोऽपि, तद् धरविद्याधरोक्तम्, आकर्ण्य श्रुत्वा, मुमुदेतराम् अतिशयेन प्रसन्नो बभूव, नष्टस्य विगतस्य, अर्थस्य पदार्थस्य, संप्राप्तिाभः, मुदां प्रमोदानाम्, कामदोग्ध्री कामान् दोग्धीति कामदोग्ध्री मनोरथपूरिका, किम् न भवति अपि तु भवत्येव । अर्थान्तरन्यासः ॥ २२ ॥