________________
जीवन्धरचम्पूकाव्ये यामन्वर्थाभिधेयेन नित्यालोकेति खेचराः ।
वदन्ति नीरदा यम्या गवाक्षद्वारचारिणः ।।१३।। यत्सालमाला स्फुरदंशुजाला पयोधरप्रोल्लसदम्बर श्रीः । वक्षःस्थलीव प्रमदाजनानां मना जरीति च निराणाम् ॥१४॥
यद्गोपुराग्रसुत्राममणिपुत्रीविराजते ।
'घृतसूक्ष्मदुकूलेव शारदाम्बुदमालया ।।१५।। गरुडवेग इति क्षितिपालकः सकलखेचरसेवितवैभवः । इह पुरीमनुशास्ति यथा दिवं सुरपतिः कमनीययशोधनः ।।१६।। शरीरिणी कान्तिपरम्परेव सदेहवन्धा शशिनः कलेव । अचञ्चला विद्यदिवापरेव श्रीधारिणी तस्य चकास्ति पत्नी ।।१७।।
गन्धर्वदत्ता तस्यास्ति तनया विनयोज्ज्वला ।
या मन्मथमहाहऱ्यावलभीमणिदीपिका ॥१८।। अस्या बाल्ये कुवलयहशो विग्रहं त्यक्तुकामे
तारुण्ये चागमनरसिके मन्मथद्वारचारे ।
यामन्वर्थतियां पुरीम्, खेचरा विद्याधराः, अन्वर्थाभिधेयेन सार्थकनामधेयेन, नित्यालोका' इति नित्यः सदातन आलोकः प्रकाशो यस्यां सा, इति, वदन्ति कथयन्ति । नीरदा मेघाः, यस्या नगर्याः, गवाक्षद्वारेषु वातायनप्रवेशमार्गेषु चरन्तीत्येवं शीला इति गवाक्षद्वारचारिणः । सन्तीति शेपः ।। १३ ॥
___ यत्सालमालेति-यस्या नित्यालोकपुर्याः सालमाला प्राकारपरम्परा निर्जराणां देवानां पक्षे यूनाम, मनो हृदयम्, जरीहर्ति पुनःपुनरतिशयेन हरति । कथम्भूता सालमालेन्याह-प्रमदाजनानां नारी निचयानाम्, वक्षःस्थलीव उरःस्थलीव, अथोभयोः सादृश्यमाह-स्फुरदंशुमाला, स्फुरन्ति देदीप्यमानानि अंगुजालानि खचितरत्ननिचय किरणसमूहा यस्या सा पक्षे स्फुरन्ति अंशुजालानि-उपरि धारितरत्नमालाकिरणसमूहा यस्यां सा पयोधरमै धैः प्रोल्लसत् शोभमानं अदम्बरं गगनं तस्मिन् श्रीः शोभा समुत्तुङ्ग वाद्यस्याः सा, पते पयोधरः स्तनः प्रोल्लसच्छोभमानं यदम्बरं वस्त्रं तेन श्रीः शोभा यस्याः सा । यथोत्तुङ्ग स्तनयुगलविशोभिता युवतिजनानां वक्षःस्थली जरारहितानां यूनां मनो हरति तथा तासालमाला निर्जराणां देवानां मनो हरताति भावः । श्लिष्टोपमा ॥ १४ ॥
यद्गोपुराग्रेति-यस्या नगर्या गोपुराने प्रधानद्वाराग्रभागे निर्मिता या सुत्राममणिपुत्री नीलमणिपुत्तलिका सा, शरदि भवाः शारदाः, ते च तेऽम्बुदाश्च तेषां माला तया जलदान्तजलदपङ्क्त्या , पृतं पिहितं सूचमढुकूलं लवुक्षीमं यया सा तथाभूतेव, राजते शोभते, उत्प्रेक्षा ।। १५ ॥
गरुड़वेग इति-सकलाश्च ते खेचराश्चेति सकलखेचरा निखिल विद्यावरास्तैः सेवितं समाराधितं वैभवमैश्वर्यं यस्य सः, कमनीयं मनोहरं यश एव कीर्ति रेव धनं वित्तं यस्य सः गरुडवेग इति प्रसिद्धः, क्षितिपालको राजा, दिवं स्वर्गम्, सुरपतिर्यथा पुरन्दर इव, इह पर्वते, पुरी नित्यालोकाभिधानां नगरीम् , अनुशास्ति पालयति । उपमा ॥ १६ ॥
शरीरिणीति-तस्य गरुडवेगस्य, शरीरिणी मूर्तिमती, कान्तिपरम्परेव दीप्तिसन्ततिरिव, देहबन्धेन शरीरसंघातेन सहिता. सदेहबन्धा, शशिनश्चन्द्रमसः कलेव पोडशभाग इव, अचञ्चला स्थिरा, अपरा भिन्ना, विद्युदिव सौदामिनीव, श्रीधारिणी एतन्नामवती, पत्नी, चकास्ति शोभते ॥ १७ ॥
गन्धर्वदत्तेति-तस्य गरुडवेगस्य, विनयेन नम्रतयोज्ज्वला शोभमाना, गन्धर्वदत्ता-एतन्नामवती, तनया पुत्री, अस्ति विद्यते, या, मन्मथस्य कामस्य महाहयं महाभवनं तस्य वलभी गोपानसी तस्या मणिदीपिका रत्नदीपिका, अस्ति । रूपकालंकारः ॥ १८ ॥
अस्या बाल्य इति-कुवलयदृशो नीलोत्पललोचनायाः, अस्या गन्धर्वदत्तायाः, बाल्ये शैशवे,