________________
जोवन्धरचम्पूकाव्ये
विद्याधरोकरसरोरुहराजहंस
युग्मायमानचलचामरवीज्यमानम् । राज्यश्रियो नयनयुग्मगलत्कटाक्ष
धारापरीतमिव खेचरभूमिपालम् ।।२३।। मदनद्रुममजुमञ्जरीभिः स्फुटलावण्यपयोधिवीचिकाभिः । महितं वरवारकामिनीभिर्बहुसौन्दर्यतरङ्गिणीझरीभिः ॥२४॥ खेचरेन्द्रमकुटीतटीलस-मौक्तिकप्रतिफलत्पदाम्बुजम् ।। हारयष्टिपरिमण्डितोरसं निझराञ्चितहिमाद्रिसच्छविम ॥२५।।
तं ददर्श खगाधीशमकुटारूढशासनम् ।
मोदवार्धेः परं पारमपि सांयात्रिकाधिपः ॥२६॥ तमेनं सभाजिरविराजितमणिमयासनमलङ्कर्वन्तं मूर्तीकृतमिव सौहार्दै सांयाविक स्मितसंभापितादिभिः संतपयन , निजनन्दिनीस्वयंवरवृत्तान्तं कर्णामृतं मनसो रसायनं च कारयन् , चकार तद्वशां निजतनयां विदितनयां ध्वजिनीं च कलितादरो विद्याधरपतिः ।
विद्याधरेशस्य निदेशमेत्य सेनां पुरोधाय परीतमानम । सांयात्रिकोऽसौ मुदमाप पूर्व पश्चात्तयामा निजराजधानीम् ॥२७।।
अथ विद्याधरधरापतिं कलापकेन वर्णयति-विद्याधरीति-मदनेति-खेचरेन्द्रेति-तमिति-विद्याधरीणां खेचरीणां करसरोरुहेपु पाणिपद्मपु विद्यमानौ राजहंसौ मरालविशेषौ तयोयुग्मायमानाभ्यां युगलवदाचरद्भ्यां चामराभ्यां बालव्यजनाभ्याम् वीज्यमानं प्रकीर्यमाणम्, अतएव राज्यश्रियो राज्यलचम्याः, नयनयुग्माल्लोचनयुगलाद गलन्ती पतन्ती या कटाक्षधारा केकरपङ्क्तिस्तया परीतमिव व्याप्तमिव । मदनद्रुमस्य कामानोकहस्य मञ्जुमञ्जर्यो मनोहरपुष्पसजस्ताभिः, स्फुटलावण्यमेव प्रकटसौन्दर्यमेव पयोधिः सागरस्तस्य वीचिका लहर्यस्ताभिः, वहुसौन्दर्यमेव प्रचुरसौन्दर्यमेव तरङ्गिणी नदी तस्या झर्यः स्रोतांसि ताभिः, वरवारकामिनीभिः श्रेष्टविलासिनीभिः, महितं शोभितम् , खेचरेन्द्राणां विद्याधरराजानां मकुटीतटीपु मौलिपान्तेपु लसन्ति शोभमानानि यानि मौक्तिकानि मुक्ताफलानि तेपु प्रतिफलती पदाम्बुजे चरणकमले यस्य तम्, हारयष्टिभिर्मुक्तालताभिः परिमण्डितं शोभितमुरो वक्षो यस्य तम्, निझरैः स्रोतोभिरञ्चितः शोभितो यो हिमाद्रिः प्रालेयलिस्तस्येव सच्छविः शोभनदीप्तिर्यस्य तम् । खगाधीशानां विद्याधरराजानां मकुटेपु मौलिप्वारूढमधिष्ठितं शासनमाज्ञा यस्य तम्, तं पूर्वोक्तम्, खेचरभूमिपालं विद्याधरराजं गरुडवेगमिति यावत्, सांयात्रिकाधिपः पोतवणिक्श्रेष्टः श्रीदत्तः, ददर्श विलोकयामास, मोदवा:सागरस्य, परं द्वितीयम्, पारं तटम्, अपि ददर्शति पुर्वेणान्वयः अथवा 'आप प्राप्तवान्' इति पाठ ॥२६॥
तमेनमिति-सभाजिरे सभाङ्गणे विराजितं शोभितं यन्मणिमयं रत्नमयमासनं विष्टरं तद्, अलङ्कुचन्तं शोभयन्तम्, मूर्तीकृतं सदेहीकृतम्, सौहार्दमिव मैव्यमिव, एनं तं सांयात्रिकं पोतवणिजम्, स्मितसंभापितादिभिर्मन्दहसितसंभापणप्रभृतिभिः, संतर्पयन् प्रीणयन् , निजनन्दिन्याः स्वपुत्र्याः स्वयंवरवृत्तान्तं स्वयंवरोदन्तस्तम्, कर्णामृतं श्रुतिसुधाम् , मनसो हृदयस्य, रसायनं पुष्टिप्रदौपधं च कारयन् विदधन् , कलितादर आदरसम्पन्नः, विद्याधरपतिर्गरुडवेगः, निजतनयां स्वपुत्रीम् , विदितो नयो ग्रया तां ज्ञात तिम् , ध्वजिनी च सेनाञ्च, तद्वशां तदायत्ताम्, चकार विदधे ।
विद्याधरेशस्येति-असौ सांयात्रिकः पोतवणिक, विद्यावरेशस्य खेचरेन्द्रस्य परीतं व्याप्तं मानं सन्मानं यस्मिस्तम् , निदेशमाज्ञाम् , एन्य प्राप्य, सेनां पृतनाम् , पुरोधायाने कुन्वा, पूर्व प्राक् , मुदं हर्पम् , आप प्राप्तवान् , पश्चात्तदनु, तया मुदा, ग्वेचरेन्द्रपुत्र्या, पृतनया च, अमा सह, निजराजधानी स्वावासनगरीम् , आप प्राप्तवान् ॥ २७ ।।
१. परीतमानाम् ब० ।।