________________
तृतीयो लम्भः
५७
तं वारांनिधिमापीय नयनेन वणिक्पतिः ।
विस्मयाम्बुधिमापेदे क्षारत्वमसहन्निव ।। ४ ।। तदनु पोतमारुह्य द्वीपान्तरं गत्वा तत्र विचित्ररूपायैर्बहूनि द्रविणानि संपाद्य संपदा शम्यायुधमन्तरिक्षाकूपारसञ्चरणक्षमैरावणस्कन्धादिरूढमनुकुर्वन्निव महायानपात्रमारुह्य सांयात्रिकपतिरसाववारान्तमाडुढौके।
ततो घनघनारवस्फुटितसर्वदिग्भित्तिकः
पपात तरणौ तदा बहलवपबिन्दूत्करः । निजप्रतिभटस्फुटप्रचुरमौक्तिकाडम्बरा
सहिष्णुरिव गोचरो न हि विपत्क्षणः प्राणिनाम् ॥ ५॥ सांयात्रिकोऽसौ सकलास्तरिस्थान्पुरैव शोकाम्बुधिमग्नदेहान् । संतारयामास स तत्त्वबोधपोतप्रदानेन परावरज्ञः ॥ ६॥
तथाभूताः बभुः शुशुभिरे, कुम्भोन्द्राश्च गजेन्द्राश्च, भूमिधराणां पर्वतानामुग्रन्न्यः प्रकटीभवन्यो या दर्यो गुहास्तासां भ्रान्तिः संदेहस्तया, महाझपाणां दीर्घकायमत्स्यानामाननं मुखमेव विलं गह्वरं तत्, आविश्य प्रविश्य, तस्य ज्वालमालां तेजःसमूहं न सहन्त इति तज्ज्वालमालासहाः सन्तः, पुनर्भूयः, निवृत्ति प्रत्यागमनम्, अगमन् प्रापुः । शार्दूलविक्रीडितच्छन्दः ॥ ३ ॥
तं वारांनिधिमिति वणिक्पतिः श्रीदत्तः, नयनेन चक्षुपा, तं पूर्वोक्तम्, वारांनिधिं सागरम्, आपीय समन्तात्पीत्वा दृष्ट्वेति यावत् , क्षारत्वं लवणताम्, असहन्निव सोढुमसमर्थो भवन्निव, विस्मयाम्बुधिमाश्चर्यमागरम्, आपेदे प्राप । उत्प्रेक्षा ॥ ४ ॥
___ तदनुपोतमिति-तदनु सागरदर्शनानन्तरम्, सांयात्रिकानां पोतवणिजां पतिः स्वामीति सांयात्रिकपतिः, असौ श्रीदत्तः पोतं नौकाम्, आरुह्याधिष्टाय, अन्यो द्वीपो द्वीपान्तरस्तम्, गत्वा प्राप्य, तत्र द्वीपान्तरे, विचित्रवि विधैः, उपायः साधनैः बहूनि विपुलानि दविणानि धनानि, संपाद्योपाय, संपदा संपत्त्या अन्तरिक्षमेवाकृपार इत्यन्तरिक्षाकूपारो गगनसागरस्तस्मिन् संचरणे गमने क्षमः समथों य ऐरावणः सुरगजस्तस्य स्कन्धं ग्रीवोपरि, अधिरूढोऽधिष्ठितस्तम्, शम्पायुधं वज्रायुधम्, इन्द्रमिति यावत् , अनुकुर्वन्निव विडम्बयन्निव, महायानपात्रं महापोतम्, आरुह्याधिष्ठाय, अबारान्तं समुद्रान्तम्, आडुढौके पाप । 'ढोक गतौ' इत्यस्य लिटि रूपम् ।
ततो घनघनारवेति-ततस्तदनन्तरम्, तदा तस्मिन् काले, घनश्चासावारवश्चेति धनारवः प्रचण्डशब्दः घनानां मेघानां यो घनारवस्तेन स्फुटिता विदारिताः सर्वदिग्भित्तयो निखिलकाष्ठान्तप्रदेशा येन सः, वर्ष बिन्दूनां वृष्टिसीकराणामुन्करः समूह इति वर्षबिन्दूत्करः, बहलश्चासावधिकश्चासौ वर्षबिन्दूकरश्चेति बहलवर्षविन्दूत्करः, निजप्रतिभटः शोभया स्वपतिपक्षः, स्फुटः प्रकटितः प्रचुरः प्रभूतश्च यो मौक्तिकानां मुक्ताफलानामाडम्बरः समूहस्तस्यासहिष्णुरसहनशील इव, तरणौ पाते, पपात-अपतत् । हि निश्चयेन विपत्क्षणो विपत्त्यवसरः, प्राणिनां जीवानाम्, गोचरो विषयः, न, नो अस्तीति शेषः । कस्य कदा कापत्तिरापतिष्यतीति प्राणिनो नो जानतीति भावः । उत्प्रेक्षार्थान्तरन्यासौ । पृथिवीच्छन्दः ।। ५॥
सांयात्रिकोऽसाविति-परश्चावरश्चेति परावरौ उत्तमाधमौ, तौ जानातीति परावरज्ञः, असौ सः पूर्वोक्तः, सांयात्रिकः पोतवणिक् , श्रीदत्त इति यावत् , पुरैव तरिनिमन्जनात्प्रागेव, शोक एवाम्बुधिः शोकाम्बुधिः खेदसागरस्तस्मिन्मग्नो देहो विग्रहो येषां तान् , सकलान् समस्तान् तरिस्थान नौकास्थितान् , जनानिति शेषः, तत्त्वबोधस्तत्त्वज्ञानमेव पोतो यानं तस्य प्रदानं वितरणं तेन संतारयामास संतीर्णाञ्चकार । सदुपदेशेन तेषां शोकमपाचकारेति भावः ॥ ६॥
१. संचरणचणैरावण, ब० ।