________________
जीवन्वर चम्पूकाव्ये
शनैः शनैर्नावि नष्टायां द्विष्टेनेव सन्निधापितं दृष्टं कूपखण्डमारुह्यात्मानं लब्धप्राणं मन्यः मानो नष्टशेवधिरपि संतुष्टहृदयः किंचन द्वीपमासाद्य तत्र यादृच्छिकमिव गतं कंचन विद्याधरं प्रति चापलवशेन निजोदन्तं प्रतिपादयामास ।
श्रुत्वा तेन च मिपेण स नीयमानो
रूप्याचलं स्मितनिभं धरणीरमण्याः । शृङ्गैर्नभोनिकपणोपललीढतुङ्ग
लेखाचलं परिहसन्तमिमं ददर्श ॥ ७ ॥ यत्सानुनीलमणिदीप्तिपरम्पराभिः
५८
पञ्चाननस्य शिशवो बहु विप्रलब्धाः । सत्येऽपि कन्दरमुखे परिशङ्कमाना
निश्चित्य गर्जनकृतध्वनिभिर्विशन्ति ॥ ८ ॥ स्ववीय वन्यद्विरदो नितम्बे यस्य विम्वितम् । समेत्य दन्तैस्तं हन्ति मदिनां का विवेकिता ॥ ६ ॥ मृगाधिपा यत्र गजभ्रमेण वनावलिं गर्जनसम्भ्रमेण । उत्पत्य वेगान्नखरप्रहारैर्विदार्य कोपेन समुत्सृजन्ति ॥ १० ॥
शनैः शनैरिति - शनैः शनैर्मन्दं मन्दम् क्रमेणेति यावत्, नावि तरणी, नष्टायां निमग्नायां सत्याम्, दिष्टेनेव भाग्येनेव, सन्निधापितं समीपं प्रापितम् दृष्टं विलोकितम्, कूपखण्डं नौकादण्डम्, आरुह्याधिष्टाय, आत्मानं स्वम्, लब्धाः प्राप्ताः प्राणा आयुःप्रभृतयो येन तं लब्धप्राणम्, मन्यमानो | बुध्यमानः नष्टशेवधिरपि विगतनिधिरपि, संतुष्टं हृदयं यस्य तथाभूतः संतृप्तचेताः, स श्रीदत्तः किञ्चन कमपि, द्वीपमन्तरीपम्, आसाद्य प्राप्य तत्र द्वीपे यच्छया विहरतीति यादृच्छिकस्तं स्वैरचारिणम्, गतं प्राप्तम्, कञ्चन कमपि, विद्याधरं खगम्, प्रति तमुद्दिश्येति यावत्, चापलवशेन चञ्चलत्वेन निजोदन्तं स्वसमाचारम्, प्रतिपादयामास जगाद |
श्रुत्वाति- अथानन्तरम्, तेन जनेन श्रुत्वा निशम्य तदुदन्तमिति शेषः मिषेण केनापि व्याजेन, नीयमानो गम्यमानः, स श्रीदत्तः, धरणीरमण्याः पृथिवीपुरन्ध्रयाः स्मितनिभं मन्दहसितसदृशम्, नभ एव गगनमेव निकपणोपलः शाणोपलस्तेन लीढानि स्पृष्टानि तथाभूतानि च तानि तुङ्गानि च समुन्नतानि चेति तथाभूतैस्तैः, शृङ्गः शिखरैः, लेखानां देवानां गिरिस्तं सुमेरुपर्वतमिति यावत् परिहसन्तं तिरस्कुन्तम्, इमम्, रूपमाचलं रजतगिरिम्, विजयार्धमिति यावत् ददर्श विलोकयामास ॥ ७ ॥
यत्सानुनीति - यस्य रूप्याचलस्य, सानुनीलमणीनां शिखरगतमेचकरत्नानां दीप्तयः किरणास्तासां परम्पराः पङ्क्तयस्ताभिः बहु भूयोवारान् विप्रलब्धाः प्रतारिताः, पञ्चाननस्य सिंहस्य, शिशवः शावकाः, सत्येsपि यथार्थभूतेऽपि कन्दरमुखे गुहाग्रभागे, परिशङ्कमानाः संदिहानाः सन्तः, गर्जनेन कृता विहिता ध्वनयः प्रतिनादास्तैः, निश्चित्य निर्णय, विशन्ति प्रवेशं कुर्वन्ति । भ्रान्तिमानलङ्कारः ।। ८ ।।
स्वं वीक्ष्येति वने भवो वन्यः, द्वौ रदी यस्य स द्विरदः, वन्यश्वासौ द्विरदश्चेति वन्यद्विरदः काननकरी, यस्य रूप्याचलस्य, नितम्बे कटके, विम्बितं प्रतिफलितम्, स्वमात्मानम्, वीक्ष्य विलोक्य, समेत्याभिमुखं गत्वा, दन्तै रहनैः तं प्रतिबिम्बित हस्तिनम्, हन्ति ताडयति, मदिनां मदयुक्तानाम्, का किन्नामधेया, विवेकिता कर्तव्याकर्तव्यज्ञानवत्ता, अस्ति, नास्त्येवेति भावः । भ्रान्तिमदर्थान्तरन्यासी ॥ ६ ॥
मृगाधिपा इति-यत्र पर्वते, मृगाधिपाः सिंहाः, गर्जनसम्भ्रमेण गर्जितभ्रान्त्या, गजभ्रमेण हस्तिसंदेहेन, वेगाज्जवात्, वनावलिं मेघसमूहम्, उत्पत्योद्गम्य, कोपेन क्रोधेन, नखरप्रहारैर्नखाघातैः, विदार्य विदीर्णं विधाय समुत्सृजन्ति मुञ्चन्ति । भ्रान्तिमान् ॥ १० ॥
१. उत्पद्य ब० ।