SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये कदाचिदसौ रत्नवाणिज्यपरायणो रत्नपं गन्तुकामः प्रस्थानमाचरन्क्रमेण लजितानेकजनपदनगरग्रामः, स्फुटितशुक्तिमौक्तिकवितानतारकितं मकरमीनकुलीरराशिसमाश्रितमपरमिव गगनतलं निशि निपीतनिशाकरकनिकरं डिण्डीरखण्डकपटेनोद्वमन्तमिव, क्वचिच्चलाचलकुलाचलैरिव कल्लोलघट्टनमनुभवद्भिस्तिमितिमिङ्गिलैः पुवैरिवोपास्यमानम् , कचन माणिक्यराशिरश्मिझरीपरीतजलमामिषशङ्कयाभिधावद्भिः पुनः पावकभिया धावमानैर्मीनैराकुलीनम् , कुत्रचिद्देदीप्यमानफणामणिभिस्तरङ्गसंगतैर्भुजङ्गनिबिडिततया परिणाहादिगुणेन विजितं विलीनमाकाशमूर्मिहस्तविधृतदीपिकाभिरन्वेषमाणामिव, कुत्रचन विततविद्रुमवनराजिविराजिततया प्रत्यक्षीकृतौनिलमिव, कचन गङ्गासिन्धुप्रमुखनदीकान्ताः समागताः प्रसारितलहरीबाहाभिराश्लिष्यन्तमिव, पुरः प्रकाशन्तमुदन्वन्तं ददर्श । यत्राम्भोमनुजाम्तटोत्थपवनप्रोद्धृततालीवन ध्वान्तत्रस्तहदः प्रमर्दितमिलच्छैवालमाला बभुः । कुम्भीन्द्राश्च महाझपाननबिलं भूमीधरोद्यदरी भ्रान्त्या विश्यपुनर्निवृत्तिमगमंस्तज्ज्वालमालासहाः ॥३॥ कदाचिदिति-कदाचिज्जातुचित्, रत्नानां मणीनां वाणिज्ये व्यापारे परायणस्तत्परः, अतएव रत्नद्वीपं द्वीपविशेषम्, गन्तुकामो यातुमनाः, 'तु काममनसोरपि' इति मलोपः, असौ श्रीदत्तः, प्रस्थानं प्रयागम्, आवरन् कुर्वन् , क्रमेण क्रमशः लविता ब्यतिक्रान्ता अनेके बहवो जनपदनगरपामा राष्ट्रपत्तननिगमा येन तथाभूतः सन्, पुरः पुरस्तात्, प्रकाशन्तं शोभमानम्, उदन्वन्तं सागरम् 'उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः' इत्यमरः, ददर्श विलोकयामास । अथ तमेवोदन्वन्तं वर्णयितुमाह-स्फुटितानि विदीर्णानि यानि शुक्तिमौक्तिकानि मुक्तास्फोटमुक्ताफलानि तेषां वितानेन समूहेन तारकितं सजातनक्षत्रकम्, मकराश्च मीनाश्च कुलीराश्चेति मकरमीनकुलीरा नक्रपाठीनकर्कटाभिधाना जलजन्तुविशेपास्तेषां राशिः समूहस्तेन समाश्रितं सेवितं पते मकरमीनकुलीरा एव राशयो ज्योतिपशास्त्रप्रसिद्धास्तैः समाश्रितम्, अपरमन्यत्, गगनतलमिव नभस्तलमिव, डिण्डीरस्याब्धिकफस्य खण्डः समूहस्तस्य कपटेन दम्भेन, निशि रजन्याम्, निपीतो धयितो यो निशाकरस्य चन्द्रस्य करनिकरः किरणकलापस्तम्, उद्वमन्तमिवोनिरन्तमित्र, क्वचित्कुत्रचित्, घट्टनमाघातमिति कल्लोलघट्टनम्, अनुभवद्भिः प्राप्नुवद्भिः, चलाचलाश्च ते कुलाचलाश्चेति चलाचलकुलाचलास्तैरतिशयचपल कुलपर्वतैरिव, तिमयश्च पाठीनाश्च तिमिङ्गिलाश्च मत्स्यविशेपाश्चेति तिमितिमिङ्गिलास्तैः, तिमि गिरतीति विग्रहे मूलविभुजादित्वात्कप्रत्ययः, 'अचि विभाषा' इति लत्वम्, 'गिलोड गिलस्य' इति मुत्वम्, पुत्रेरिव सुतैरिव, उपास्यमानं सेव्यमानम्, क्वचन कुत्रचित् माणिक्यराशे रत्नसमूहस्य रश्मिरीभिः किरणसन्ततिभिः परीतं व्याप्तं यज्जलं तोयं तत्, आमिपशङ्कया मांसभ्रान्त्या, अभिधावद्भिः संमुखमागच्छद्भिः, पुनभूयः, पावकभिया वैश्वानरभयेन, धाबमानवेगेन दूरं गच्छद्भिः, मीनैः शरैः, आकुलीनमाकीर्णम्, कुत्रचित्त्वचित्, देदीप्यमाना अतिशयेन प्रकाशमानाः फणामणयो भोगरत्नानि येषां तैः, तरङ्गसंगतः कल्लोलमिलितैः, भुजङ्गै गैः, निबिडिततया सान्द्रतया, परिणाहादिगुणेन विशालताप्रभृतिगुणेन 'परिणाहो विशालता' इत्यमरः, विजितं पराजितं, सत्, विलीनमन्तर्हितम्, आकाशमम्बरम् ऊर्मय एव तरङ्गा एव हस्ताः करास्तेषु विश्ता गृहीता या दीपिकास्ताभिः, अन्वेषमाणमिव गवेपयन्तमिव, कुत्रचिकस्मिंश्चित्प्रदेशे, विद्रुमवनं प्रवालकाननं 'मूंगा' इति प्रसिद्धकाननम् तस्य राजिः पंक्तिस्तया विराजिततया शोभिततया, प्रत्यक्षीकृतः संमुखं दृश्यमान और्वानलो वडवानलो यस्य यस्मिन्वा तमिव क्वचन कुत्रापि, समागताः प्राप्ता, गङ्गासिन्धू प्रसिद्धनदीविशेषौ प्रमुखे यासु तथाभूता या नद्यः सवन्त्यस्ता एव कान्ता वनितास्ताः, प्रसारिता लहर्य एव तरङ्गा एव बाहा वाहवस्ताभिः, आश्लिष्यन्तमिवालिङ्गान्तमिव ।। यत्राम्भोमनुजा इति-यत्रोदन्वति, तटोत्थानि तीरोत्पन्नानि, पवनप्रोद्भूतानि वायुकम्पितानि यानि तालीवनानि ताडीकाननानि तेषां, ध्वानेन शब्देन त्रस्तं भीतं हृन्मनो येषां ते, अम्भोमनुजा जलमनुष्याः, प्रमर्दिताः खण्डिता मिलन्त्योभयनिवाणार्थमुपरिधारिताः शैवालमाला जलनीलीसमूहा येषां
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy