________________
तृतीयो लम्भः
अथ दिने दिने प्रवधमानानुरागः पद्मास्यनामा राजहंसतरुणस्त्रिवलीलहरीविराजिते नाभिमहावर्तशोभिते गोविन्दानामतरङ्गिण्या उदरहदे कंचन कालं रममाणः, काञ्चीविहङ्गविरुतमुखरिते धननितम्वविम्बपुलिने कतिपयसमयं स्थितिमापन्नः, करेण मेचकचूचुकलोलम्वचुम्वितवक्षोरुहकमलकुड्मलं स्पृशन् ,आनन्दलहरीभिरभ्युक्षितः, कुचचक्रवाकमञ्जलेसुरभिलश्रीखण्डद्रवपङ्किले कञ्चुलीकोमलशैवलपेशले वक्षःस्थलकमलाकरे विहरमाणश्चिरमिन्द्रियग्रामं तर्पयामास ।
जीवन्धरोऽपि कमनीयकलावधूटीः
___ कीर्त्यङ्गनां जयरमां च समानवृत्त्या । उल्लासयन्सकललोचनभागधेय
___माबिभ्रदाकृतिममन्दमुद्रावतस्थे ॥१॥ तस्मिन्पुरे वैश्यजनस्य नेता श्रीदत्तनामा वसति स्म कश्चित् । यस्य स्पृहोही धनलाभहेतू प्रासाददेशे रमतां चिराय ॥ २॥
अथेति-अथ गोविन्दापरिणयानन्तरम्, दिने दिने प्रतिदिवसम्, प्रवर्धमानः समेधमानोऽनुरागः प्रीतिर्यस्य तथाभूतः, पद्मास्यनामा पद्मास्याभिधानः, राजहंसतरुणो मरालयुवा, त्रिवल्यो नाभेरधस्ताद्विद्यमानास्तिस्रः रेखा एव लहर्यस्तरङ्गास्ताभिर्विराजिते शोभिते, नाभिरेव नुन्दिरेव महावर्तो दीर्घभ्रमस्तेन शोभिते समुल्लसिते, गोविन्दानामतरङ्गिण्या गोविन्दाख्यस्रवन्न्याः उदरहदे उठरजलाशये, कंचन कालं किञ्चिन्समयपर्यन्तम् 'कालाध्वनारत्यन्तसंयोगे' इति द्वितीया, रममाणः क्रीडन्, काञ्चीविहङ्गानां मेखलाशकुन्तानां विरुतेन कूजनध्वनिना मुखरिते वाचालिते, घनं निविडं स्थूलमिति यावत् यन्नितम्बबिम्ब कटिपश्चाद्भागाभोगः स एव पुलिनं तोयोत्थिततीरप्रदेशस्तस्मिन् 'तीयात्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः, कतिपयसमयं किञ्चित्कालम्, स्थितिमवस्थानम्, आपन्नः प्राप्तः तत्र स्थित इति यावत्, करेण हस्तेन, मेचकचूचुके एव कृष्णस्तनमुखे एव लोलम्बो भ्रमरौ ताभ्यां चुम्बितमाश्लिष्टं यद् वक्षोरुहकमलयोः कुचारविन्दयोः कुडमलं मुकुलं तत् , स्पृशन् स्पर्शनेन्द्रियविपीकुर्वन् , आनन्दलहरीभिः प्रमोदतरङ्गः, अभ्युक्षितोऽभिषिक्तः कुचावेव चक्रवाकौ कुचचक्रवाको स्तनरथाङ्गौ ताभ्यां मञ्जुले मनोहरे, सुरभिलश्चासौ सुगन्धिश्चासौ श्रीखण्डद्रवश्व मलयजपङ्कश्चेति सुरभिलश्रीखण्डद्रवस्तेन पङ्किले पङ्कयुक्ने, कञ्चल्येव स्तनवस्त्रमेव कोमलशैवलं मृदुजलनीली तेन पेशले मनोहरे, वक्षःस्थलमेवोरःस्थलमेव कमलाकरः पद्मोपलक्षितसरोवरस्तस्मिन् , विहरमाणो विहारं कुर्वन् , सन् , चिरं दीर्घकालं यावत्, इन्द्रियग्रामं हृषीकसमूहम्, तर्पयामास प्रीणयामास । रूपकालङ्कारः।
जीवन्धरोऽपि-जीवन्धरोऽपि सात्यन्धरिरपि, कमनीयकला एव ललितवैदग्ध्य एव वधूट्यो युवतयस्ताः, कीर्तिरेव समझेवाङ्गना सीमन्तिनी ताम्, जयरमां च विजयलक्ष्मी च, समानवृत्त्या दाक्षिण्येन समानानुरागेणेति यावत्, उल्लासयन् हर्पयन् , सकलानां निखिलानां लोचनानि नयनामि तेषां भागधेयं भाग्यम् ‘भागरूपनामभ्यो धेयः' इति भागशब्दाद्धेयप्रत्ययः, आकृति संस्थानं सौन्दर्यमिति यावत्, आबिभ्रद् आदधत्, अमन्दमुदा प्रकृष्टहर्षेण, अवतस्थेऽवस्थितो बभूव, सुखेन न्युवासेति भावः ॥ ३॥
तस्मिन्निति-तस्मिन् पुरे पूर्वोक्ते राजपुरनगरे, श्रीदत्तनामा श्रीदत्ताभिधानः, कश्चित्कोऽपि, वैश्यजनस्य वणिग्जनस्य, नेता नायकः, वसतिस्म न्यवात्सीत् । यस्य प्रासाददेशे भवनप्रदेशे, धनलाभस्य वित्तप्राप्ते तू कारणे, स्पृहा च धनेच्छा च, ऊहश्च तत्प्राप्त्यहतकश्चेति स्पृहोहो, चिराय दीर्घकालं सदेति यावत्, अरमतामक्रीडताम् । 'रम क्रीडायाम्' इत्यस्य परस्मैपदप्रयोगश्चिन्त्यः ॥२॥