________________
५४
जीवन्धचम्पूकाव्ये
यस्याः पादौ मृदुलकमलस्पर्धिशोभाविलासी
जङ्के मारत्रिभुवनजये काहलीवद्वभाताम् । नाभिः पञ्चायुधरसभरीकूपिकेवाविरासीद्
वक्त्रं राकासितरुचितुला संगमङ्गीचकार ||३५|| इति महाकविहरिचन्द्रविरचिते श्रीमति जीवन्धरचम्पू काव्ये गोविन्दालम्भी नाम द्वितीयो लम्भः ।
मालास्तासां प्रभा दीप्तयस्ताभिः, स्पष्टं प्रकाशमानमभ्यर्ण समीपप्रदेशो यस्यास्ताम्, गोविन्दाया नन्दगोपसुतायाः, तन्वी चासौ तनुलता च तां कृशकलेवरवल्लरीम्, चक्षुपा नयनाभ्याम्, जातावेकवचनम्, बहुमुदा प्रचुरानन्देन पश्यति स्म अवलोकयामास । मन्दाक्रान्तावृत्तम् ' मन्दाक्रान्ता जलधिपडगैरभौं नती ताद्गुरू चत्' इतिलक्षणात् ॥ ३४ ॥
यस्याः पादाविति- -यस्या गोविन्दायाः पादौ चरणौ, मृदु च तत्कमलञ्चेति मृदुकमलं कोमलपद्मं तत् स्पर्धेते इति मृदुकमलस्पर्धिनी, शोभा च विलासश्चेति शोभाविलासौ दीप्तिविभ्रम, मृदुकमलस्पर्धिनौ शोभाविलासौ ययोस्तौ आस्तामिति शेषः । यस्याः, जङ्घ प्रसृते 'जङ्घा तु प्रसृता समे' इत्यमरः, सारस्य मदनस्य त्रिभुवनजयस्त्रिलोकविजयस्तस्मिन् ' मदनो मन्मथो मारः प्रद्युम्नां मीनकेतनः ' इत्यमरः, कालीवद् वाद्यविशेषवद, व्यभाताम् शुशुभाते । नाभिस्तुन्दिः, पञ्चायुवस्य कामस्य रसभरी रसनिष्यन्दस्तस्याः कृपिकेव ह्रस्वनिपानमिव, आविरासीत्प्रादुरभूत् । वक्त्रं वदनम्, राकायाः पौर्णमास्याः सितरुचिश्चन्द्रस्तस्य तुलोपमा तस्यासङ्गं सम्बन्धम् अङ्गीचकार स्वीचक्रे । उपमालङ्कारः । मन्दाक्रान्ताच्छन्दः || ३५ ॥
इतीत्यव्ययं समाप्तौ महाकविना हरिचन्द्र ेण विरचिते निर्मिते, श्रीमति शोभासम्पन्न, जीवम्बरचम्पूकाव्ये एतन्नाम चम्पूनाम सन्दर्भे, गोविन्दाया नन्दगोपनन्दिन्या लम्भः प्राप्तिर्यस्मिन् स एतन्नामा द्वितीय लम्भोऽधिकारः समाप्त इति ।
इति महाकविहरिचन्द्रविरचिते श्रीमति 'कौमुदी' व्याख्याधरे जीवन्धरचम्पूकाव्ये गोविन्दालम्भो नाम द्वितीयो लम्भः ।