________________
जैनागमों मे स्याद्वाद धर्मभेदात सद् 'अस्तित्वे' सत्त्वे वर्त्तते, यथा पट पटत्व एव, नास्तित्वं चासत् 'नास्तित्वे वर्त्तते, यथा अपटोऽपटत्व एवेति ।। अथ परिणामहेतुदर्शनायाह -'ज णमित्यादि अस्थित्तं अस्थित्ते परिणमइ' त्ति पर्याय पर्यायान्तरतां यातीत्यर्थ 'नस्थित नत्थित्ते परिणमई' त्ति वस्त्वन्तरस्य पर्यायस्तत्पर्यायान्तरतां यातीत्यर्थ , 'पोगस' ति सकारस्यागमिकत्वात 'प्रयोगेण' जोवव्यापारेण 'वीसस' ति यद्यपि लोके विश्रसाशब्दो जरापर्यायतया रूढस्तथाऽपीह स्वभावार्थो दृश्य , इह प्राकृतत्वाद् 'वीससाए'त्ति वाच्ये 'वीससा' इत्युक्तमिति, अत्रोत्तरम्-'पयोगसावि तंति, यथ शुभ्राभ्रमशुभ्राभ्रतया, नास्तित्वस्यापि नास्तित्वपरिणामे प्रयोगविश्रसयोरेतान्येवोदाहरणानि, वस्त्वन्तरापेक्षया मृत्पिण्डादेस्तित्वस्य नास्तित्वात् , सत्सदेव स्यादिति व्याख्यानान्तरेऽप्येतान्येवोदाहरणानि पूर्वोत्तरावस्थयो सद्रूपत्वादिति, यदपि -'अभावोऽभाव एवं स्याद्' इति व्याख्यात तत्रापि प्रयोगेणापि तथा विरसयाऽपि अभावोऽभाव एव स्यात् न प्रयोगादे साफल्यमिति व्याख्येयमिति ॥ अथोक्तहेत्वोरुभयत्र समता भगवदभिमतता च दर्शयन्नाह-'जहा ते' इत्यादि, 'यथा' प्रयोगविश्रसाभ्यामित्यर्थ. 'ते' इति तव मतेन अथवा सामान्येनास्तित्वपरिणाम प्रयोग वप्रसाजन्य उक्त सामान्यश्च विधि क्वचिदतिशयवति वस्तुन्यन्यथाऽपि स्याद् अतिशयवाश्च भगवानिति तमाश्रित्य परिणामान्यथात्वमाशंकमान आह-'जहा ते' इत्यादि 'ते' इति तव