________________
श्री भगवती सूत्र
दीका-'से गुणमित्यादि 'अस्थित्तं अत्थित्ते परिणमई' त्ति, अस्तित्व----अगुल्यादे अङ्ग ल्यादिभावेन सत्त्वम् , उक्तञ्च–“सर्वमस्ति स्वरूपेण, पररूपेण नास्ति च । अन्यथा सर्वभावानामेकत्वं सम्प्रसज्यते ॥ १॥" तच्चेह ऋजुत्वादिपर्यायरूपमवसेयम् , अङ्ग ल्यादिद्रव्यास्तित्वस्य कथञ्चिदृजुत्यादिपर्यायाव्यतिरिक्तत्वात् अस्तित्वे-अङ्ग ल्यादेरेवांगुल्यादिभावेन - सत्त्वे वक्रत्वादिपर्याय इत्यर्थ 'परिणमति' तथा भवति, इदमुक्त भवति-द्रव्यस्य प्रकारान्तरेण सत्ता प्रकारान्तरसत्तायां वर्त्तते यथा मृद्रव्यस्य पिएडप्रकारेण सन्ना घटप्रकारसत्तायामिति । 'नत्थिा नत्थित्ते परिणमइ'त्ति नास्तित्वं-अ गुल्यादेरंगुष्ठादिभावेनासत्त्व तच्चांगुष्ठ दिभाव एव, ततश्चागुल्यादेर्नास्तित्वमगुष्ठाद्यस्तित्वरूपमगुल्यादेर्नास्तित्वे अंगुष्ठादे पर्यायान्तरेणास्तित्वरूपे परिणमनि, यथा मृढो नास्तित्वं तन्त्वादिरूप मृन्नास्तित्वरूपे पटे इति, अयवाऽस्तित्वमिति-धर्मधर्मिणोरभेदात् सद्वस्तु अस्तित्वेसत्त्वे परिणमति, तत्सदेव भवति, नात्यन्तं विनाशि स्याद् विनाशम्य पर्यायान्तरगमनमात्ररूपत्वात् , दीपादिविनाशस्यापि तमिस्रादिरूपतया परिणामात तथा 'नास्तित्वं' अत्यन्ताभावरूपं यत् खरविपाणदि तत् 'नास्तित्वे' अत्यन्ताभाव एव वर्तते, नात्यन्तमसत सत्वमस्ति, खरविषाणस्येवेति, उक्त च-"नासतौ जायते भावो, नाभावो जायते सत ।” अथवाऽस्तित्वमिति