________________
श्री भावती सूत्र टीका--'रायगिहे' इत्यादि पूर्ववत् , 'जीवे ण' मित्यादिन्तत्र 'सयकडं दुक्ख'ति यत्परकृतं तन्न वेदयतीति प्रतीतमेवात स्वयकृतमिति पृच्छति स्म 'दुक्खंति सासारिक सुखमपि वस्तुतो दु खमिति दुखहेतुत्वाद् 'दु ख' कर्म वेदयतीति. काकुपाठान् प्रश्न, निर्वचनं तु यदुदीर्णं तद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्ण वेदयति, नानुदीर्णं, न च बन्धानन्तरमेवोदेति अतोऽवश्य वेद्यमप्येक न वेदयति इत्येवं व्यरदिश्यते, अवश्य वेद्यमेव च कर्म “कडाण कम्माण ण मोक्खो
अत्थि" इति वचनादिति । एवं 'जाव वेमागिए' इत्यनेन चतुविंशतिदण्डक' सूचित , स चैवम् ---'नेरइए णं भन्ते ! सयंकड' मित्यादि । एवमेकत्वेन दण्डक , तथा बहुत्वेनान्य , स चैवम्'जीवा णं भत्ते ! सयकड दुक्खं वेदती'त्यादि तथा 'नेरइयाणं मते ! सयकडं दुक्ख'मित्यादि, नन्वेकार्थे योऽर्षे वहुत्वेऽपि स एवेति किं बहुत्वप्रश्नेन ? इति, अत्रोच्यते, कचिद्वस्तुनि एकत्ववहुत्वयोरर्थविशेषो दृष्टो यथा सम्यकत्वादेः एक जीवमाश्रित्य षट्षष्टिसागरोपमणि साधिकानि स्थितिकाल उक्तो नानाजीवानाश्रित्य पुन सर्वाद्धा इति, एवमत्रापि सभवेदिति शङ्कायां बहुत्वप्रश्नो न दुष्ट अव्युत्पन्नमतिशिष्यव्युत्पादनार्थत्वावति ॥ अथायु प्रधानत्वान्नारकादिव्यपदेशस्यायुराश्रित्य दण्डकद्वयम्एतस्य चेयं वृद्धोक्तभावना~यदा सप्तमक्षितावायुद्धं पुनश्च