________________
श्री ठाणाग सूत्र विसेसेण ॥१॥" इति, [एव यथाशब्दाथ स्तथा भूत सन्नन्यथाऽभूत तत (असन् ) तेनैवभूतन्य विशेषेण शब्दार्थ पर ॥१] अय हि योषिन्मस्तकव्यवस्थित चेष्टावन्तमेवार्थ घटशब्दवाच्य मन्यते, न स्थानभरणादिक्रियान्तरापन्नमिति, भवन्ति चात्र श्लोका ---"शुद्ध द्रव्य समाश्रित्य, संग्रहस्तद्। शुद्धित । नैगमव्यवहारौ स्त , शेषा पर्यायमाश्रिता ॥ १ ॥
अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्यमेवेति, मन्यते नैगमो नय ॥ २ ॥ सद्रपतानतिक्रान्तस्वस्वभावमिद जगत् । सत्तारूपतया सर्व सगृह्णन् सग्रहो मत ॥ ३ ॥ व्यवहारस्तु तामेव, प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वात् ,व्यवहार यति देहिन. ॥ ४ ॥ तत्र सूत्रनीति स्यात् , शुद्धपर्यायसंस्थिरता । नश्वरस्यैव भावस्य, भावात स्थितिषियोगत ॥ ५॥ अतीतानागताकारकालसस्पर्शवर्जितम् । वर्तमानतया सबमृजुसूत्रेण सूत्र्यते ॥६॥ विरोधिलिङ्गसख्यादिभेदाद्भिस्त्रिभावताम् । तस्यैव मन्यमानोऽयं, शब्द प्रत्यवतिष्ठते ॥ ७॥ तथाविधस्य तस्यापि, वस्तुन. . क्षणवृत्तिन ब्रूते समभिडस्तु, सज्ञाभेदेन भिन्नताम् ॥ ८ ॥ एकस्यापि ध्वनेर्वाच्य, सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वादेवभूतोऽभिमन्यते ॥ ६ ॥