________________
४२
जैनागमों मे स्याद्वाद टीका-‘सत्त मूले त्यादि, मूलभूता नया मूलनया , ते च सप्त उत्तरनया हि सप्तशतानि, यदाह-"एक्केको य सय वेहो सत्तनयसया हवति एवं तु । अन्नोऽवि य आरसो पंचेव सया नयाण तु ॥१॥" [एकैक शतविध. एवं सप्तनयशतानि भवन्ति अन्योऽपि चादेशो नयानां पचव शतानि ॥१॥] तथा-'जावइया वयणपहा तावइया चेव हुति नयवाया । जावइया नयवाया तावइया चेव परसमय ॥२॥" त्ति, [यावन्तो वचनपन्थान 'तावन्तश्चैव भवन्ति नयवादा. यावन्तो नयवादास्तावन्तश्चैव परसमया इति ॥१॥] तत्रानन्तधर्माध्यासिते वस्तुन्येकधर्मसमर्थनप्रवणो बोधविशेषो नय इति, तत्र ‘णेगमे' त्ति नैकर्मानैर्महासत्तासामान्यविशेषविशेषज्ञानैमिमीते मिनोति वा नैकम., आह च-“णेगाई माणाई' सामन्नोभयविसेसनाणाई । जं तेहिं मिणइ तो णेगमो
यो रोगमाणोत्ति ॥१॥" [नैकानि मानानि सामान्योभयविरोपज्ञानानि यतैर्मिनोति ततो नैगमो नयो नैकमान इति ॥१] इति निगमेषु वा-अर्थवोधेषु कुशलो भवो वा नैगम , अथवा नैके गमा.-पन्थानो यस्य स नैकगमः, आह च-'लोगत्थनिवोहा वा निगमा तेसु कुसलो भवो वाऽयं । अहवा ज णेगगमो णेगपहा णेगमो तेणं ॥ १॥” इति ॥ [लोकार्थनिबोधा वा निगमास्तेपु कुशलो भवो वाऽयं । अथवा यत नैकगमोऽनेकपथो नैगमस्तेन ॥ १ ॥] तत्रायं सर्वत्र सदित्येवमनुगताकाराववोधहेतुभूता महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्य