________________
जैनागमो मे स्याद्वाद प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो दृष्टान्तदान्तिकयोरसाम्यादेतन्नाशंकनीयमिति स्थितम्, प्रज्ञावृद्धश्च वाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति । यदिवा अब्जनभृतसमद्गकदृष्टान्तेन जीवकुलत्वाज्जगतो हिंसाया दुर्निवारत्कात्सिद्धयाभाव , तथा चोक्तम्
“जले जीवा स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसक ? ॥ १॥"
इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्धयभाव इति, तदेतद्युक्त, तथाहि-सदोपयुक्तस्य पिहिताश्रवद्वारस्य पंचसमितिसमितम्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशदोषरहितभिक्षाभुज ईर्यासमितस्य कदंचिद्रव्यत प्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात, तथा चोक्तम्"उच्चालियंमि पाए” इत्यादि प्रतीतं, तदेवं कर्मभावत्सि? सद्भावोऽव्याहत , सामग्रथमावादसिद्धिसद्भावोऽपीति ॥ २५ ॥ साम्प्रत सिद्धानां स्थाननिरूपणायाह-रणत्थि सिद्धी' इत्यादि सिद्ध-अशेपकर्मच्युतिलक्षणाया निजं स्थानं-ईषत्प्राग्भाराख्यं व्यवहारतो, निश्चयस्तु तदुपरि योजनक्रोशपड्भाग , तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं सज्ञा नो निवेशयेत् , यतो बाधकप्रमाणासावात साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति । अपिच-अपगता शेयकल्मषाणां सिद्धानां केनचिद्विशिष्टेन म्थाने भाव्यम, तचतुर्दशरज्ज्वात्मकस्य लोकस्याप्रभू