________________
जैनागमों में स्याद्वाद गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तदस्तित्वानुमिति , तद्स्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपापफलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य पर्यायनयाश्रयणे तु यदनेकविधत्वमुच्यते तदयुक्त', यतः सप्तपृथिव्याश्रिता अपि नारका. समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्यञ्चोऽपि पृथिव्यादय स्थावरास्तथा द्वित्रिचतु पञ्चेन्द्रियाश्च द्विषष्टियोनिलक्षप्रमाणा सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपंकसमूर्च्छनजात्मकभेदमनादृत्यैकविध-' त्वेनैवाश्रिता तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एफविधत्वेनैव गृहीता, तदेवं सामान्यविशेषाश्रयणाच्चातुर्विध्य संसारस्य व्यवस्थितं नैकविधत्व, संसारवैचित्र्यदर्शनात् , नाप्यनेकविधत्वं सर्वेषां नारकादीनां स्वजात्यनतिक्रमादिति ।। २३ ।। २४ ॥
सर्वभावना सप्रतिपक्षत्वात्ससारसद्भावे सति अवश्य तद्विमुक्तिलक्षणया सिद्धयापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धि दर्शयितुमाहमूलम्-णत्थि सिद्धि अमिद्धि वा, णवं सन्नं निवेसए ।
अस्थि सिद्धि प्रसिद्धि वा, एव सन्नं निवेसए ॥ णत्यि सिद्धि नियं ठाणं, णेवं सनं निवेसए । अत्थि सिद्धि निय ठाण, एवं सन्नं निवेसए ।
श्रा सूयगडाङ्ग सूत्र २।५।२५,२६ ।।