________________
२६
जनागमों में स्याद्वाद भङ्गो रक्तवदनो गलत्स्येद्रबिन्दुसमाकुल क्रोधामातः समुपलभ्यते, न चासौ सानांश, तत्कार्याकरणात् यथा परनिमित्तोत्थापितत्वाच्चेति, तथा जीवकर्मणोरुभयोरप्यय धर्म , तद्धर्मत्वे च प्रत्येकविकल्पदोषानुपपति , अनभ्युपगान, ससार्यात्मनां कर्मणा सार्द्ध पृथग्भवनासावात्तदुभयस्य च नरसिंहवद्वरत्वन्तरत्वादत्यतोऽस्ति क्रोधो मानश्चेत्येव सज्ञा निवेशयेत् ॥ २०॥ साम्प्रतं मायालोभयोरस्तित्व दर्शयितुमाह-अत्रापि प्राग्वन्मायालोभयोरभाववादिनं निराकृत्यास्तित्वं प्रतिपादनीयमिति ।। २१ ॥
साम्प्रतमेपामेव क्रोधादीना समासेनास्तित्वं प्रतिपादयन्नाहप्रीति लक्षणं प्रेम-पुत्रकलत्रधनधान्यात्मीयेषु रागस्तद्विपरीतस्त्वात्मीयोपधातकारिणि द्वेष , तावेतौ द्वावपि न विद्यते, तथाहिकेपाञ्चिदभिप्रायो यदुत-मायालोभावेवावयवौ विद्यते, न तत्समुदायरूपो रागोऽवयव्यस्ति, तथा क्रोधमानावेव स्त , न तत्समुदायरूपोऽवयबी द्वेप इति, तथाहि-अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्न पृथगुपलम्भ स्याद् घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञा निवेशयेत्, यतोऽवयवाघयविनो कथञ्चिद्भद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्रयगात्प्रत्येकपक्षाश्रितदोपानुपपत्तिरिति, एवं चास्ति प्रीतिलक्षणं लेमाप्रीतिलक्षणश्च द्वेप इत्येव संज्ञां निवेशयेत् ॥ २२ ॥
साम्प्रतं कपायसद्भावे सिद्ध सति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिपेनिपेधद्वारेए. प्रतिपादयितुमाह