________________
२५
श्री सूयगडाङ्ग सूत्र जाव' स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं सज्ञा निवेयेदिति ।। १ ।।
तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतदर्शयितुमाहमूलम्-णत्थि कोहे व माणे वा, णेव सन्न निवेसए ।
अत्थि कोहे व माणे वा एवं सन्न निवेसए । णस्थि मोया व लोभे वा, णव मन्न' निवेसए । अत्थि माया व लाभे चा, एव सन्न निवेसए । णत्थि पेज्जे व दोसे वा, व सन्न निवेसए । अत्थि पेज्जे व दोसे वा, एव सन्न निवेसए ।
-श्री सूयगडाङ्ग सूत्र ।।२।५।२०,२१,२२।। टीका--स्वपरात्मनोरप्रतीतिलक्षण क्रोध , स चानन्तानयन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भद एव मानो गर्व , एतौ द्वावपि 'न स्तो' न विद्यते तथाहि क्रोध केपाञ्चिन्मतेन मानाश एव अभिमानग्रहगृहीतत्य तत्कृतावत्यन्तक्रोधोदरदर्शनात, क्षपकरेण्यां च भेदेन क्षपणानभ्युपगमात्, तथा किमयमात्मधर्म आहोस्वित्कर्मण उतान्यस्येति ? तत्रात्मधर्मत्वे सिद्वानामपि क्रोधोदयप्रसङ्ग , अथ कर्मणस्ततस्तदन्यकपायोदयेऽपि तदुदयप्रसङ्गात् मूर्तत्वाच्च कर्मणो घटस्येव तदाकारोपलब्धि स्यात् अन्यधर्मत्वे त्वकिञ्चिकरत्वसतो नास्ति क्रोध इत्येव मानाभावोऽपि वाच्य इत्येवं संज्ञा नो निवेशयेत, यत कपायकर्मोदयवर्ती दप्टोप्ट कृतभ्रु कुटी