________________
२४
जैनागमों मे स्याद्वाद त्येवं नो संज्ञां निवेशयेत् । किमिति १ यत कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तृदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-"पुट्विं दुच्चिएणाणं दुष्पडिकंताणं कम्मासं वेइत्ता मोक्र्खा, णत्थि अवेइत्ता" इत्यादि, वेदना सिद्धौ च निर्जरा ऽपि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ॥ १८ ॥
वेदनानिर्जरे च क्रियाऽक्रियायत्ते, ततस्तत्सद्भाव प्रतिषेधनिषेधपूर्वक दर्शयितुमाह-क्रियापरिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि 'न स्तो', न विद्यते, तथाहि-सांख्यानां सर्वव्यापित्वादात्मन आकाशस्यैव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्ते पदार्थसत्तैव, न तद्वयतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तम्"भूतियैषां क्रिया सैव, कारकं सैव चोच्यते” इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते, इत्येवं संज्ञां नो निवेशयेत् , किं तर्हि, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत् , तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्तिर्निमित्ता, परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव वन्धमोक्षाद्यभाव , स च दृष्टेष्टवाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं क्रिन्याया अभाव ? अपि च-एकान्तेन क्रियाऽभावे संसारमोक्षा