________________
२२
जैनागमो मे स्याद्वाद तदेतदयुक्तं, यत पुण्यपापशब्दौ सम्बन्धिशब्दौ सबधिशब्दानामे. कांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युः भयाभावः, शक्यते वक्तु , निर्नि बन्धनस्य जगद्वैचित्र्यस्याभावात्। न हि कारणमन्तरेण क्वचित्कार्यस्त्पत्तिष्टा, नियतिस्वभावादिः वादस्तु नष्टोत्तराणां पादप्रसारिकाप्रायः, अपि च तद्वादेऽभ्युप. गम्यमाने सकलक्रियावयथ्यं तत एव सकलकार्योत्पत्तेरित्यतो ऽस्ति पुण्य पाप चेत्येव सज्ञां निवेशयेत् । पुण्यपापे चैवरूपे, तद्यथा-"पुद्गलकर्म शुभ यत्तत्पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिदि टम् ॥१॥” इति ॥१६॥ न कारणमन्तरेण कार्यस्योत्पत्तिरत पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसव तत्प्रतिवेधनिषेधद्वारेण दर्शयितुकाम आहआश्रवति-प्रविशति कर्म येन स प्राणतिपातादिरूप आश्रवःकम पादानकारणं, तथा तन्निरोध. संवरः एतौ द्वावपि न स्त इत्येवं सज्ञां नो निवेशयेत्, तदभावप्रनिपत्त्याशकाकारण त्विद-काय. वाडमनः कर्मयोग स आश्व इति, यथेदमुक्त तथेदमप्युक्तमेव'उच्चालियमि पाए' इत्यादि, ततश्च कायादिव्यापारण कर्मबन्धो न भवतीति, युक्तिरपि-किमयमाश्रव आत्मनो भिन्न उताभिन्नः ? चदि भिन्नो नासावाश्रवो घटादिवद्, अभेदेऽपि नाश्रवत्वम्, सिद्धात्मनामपि आश्रव प्रसङ्गात्, तदभावे च तन्निरोधलक्षणस्य सवरस्यप्यभाव' सिद्ध ग्वेत्येवमात्मकमध्यवसायं न कुर्यात् । यतो यत्तदनैकान्तिकत्वं कायव्यापारस्य 'उच्चालियमि पाए' इत्यादि.