________________
१५
श्री सूयगडाग सूत्र थैक्येऽभ्युपगम्यमाने ससारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यच्चैतत् सत्त्वरजस्तमसां साम्या वस्था प्रकृति प्रधानमित्येतत्सर्वस्यास्य जगत कारणं तन्निरन्तरा सुहृद प्रत्येष्यन्ति, नियुक्तिकत्वाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमाने सत्त्वरजस्तमसामप्येकत्व स्यात्, तद्भदे च सर्वस्य तद्वदेव भेद इति । तथा यदप्युच्यते-'सर्वस्य व्यक्तस्य प्रधान कार्यत्वात्सत्कार्यवादाच्च मयूराण्डकरणे चञ्चुपिच्छादीना सतामोवोत्पादाभ्युपगमाद् असदुत्पादे चाम्रफलादीनामप्युत्पत्तिप्रसङ्गा' दित्येतद्वाड्मात्रं, तथाहि--यदि सर्वथा कारणे कार्यमस्ति न तह्म त्पादों निष्पन्नघटस्यैव, अपि च मृत्पिडावस्थायामेव घटगता कमगुणव्यपदेशा भवेयु, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तहि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासता मृत्पिण्डादेर्घटादेरिवोत्पत्ति स्यात न चैतदृष्टमिष्टं वा, अपि च एव सर्वस्य सर्वस्मादुत्पत्तं कार्यकारणभावानियम स्याद्, एवं च न शाल्युङ्करार्थी शालीबीजमे. वादद्यात् अपितु यत्किचिदेवेति, नियमेन च प्रेक्षापूर्वकारिणमुपादानकारणादौप्रवृत्ति , अतो नासत्कार्यवाद इति । तदेव सर्वपदार्थानां सत्त्वज्ञयत्वप्रमेयत्वादिभिधर्मे कथञ्चिदेकत्व तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थन' सदितिकृत्वा कथञ्चिद्भद इति सामान्यविशेषात्मक वस्त्विति स्थितम् । अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन रोपभङ्गका अपि द्रव्या