________________
जैनागमों मे स्याद्वाद
૬
ततश्च सर्व वस्तु सप्तभङ्गोस्वभाव, ते चामो- स्वव्यक्षे त्रकालभावापेक्षया स्यादस्ति, परद्रव्याद्यपेक्षया स्यान्नास्ति, अनयोरेव धर्मयोगपद्येनाभिधातुमशक्यत्वात्स्यादवक्तव्य, तथा कस्यचिदं - शस्य स्वद्रव्याद्यपेक्षया विवक्षित्वात्कस्यचिच्चशस्य परद्रव्याद्यपेक्षया विवक्षितत्वात् स्यादस्ति च स्यान्नास्ति चेति, तथैकम्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वपरद्रव्याद्यपेक्षया विवक्षितत्यात्स्यादस्ति चावक्तव्य चेति, तथैकस्याशस्य परद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वपरद्रव्याद्यपेक्षया विवक्षितत्वात् स्यान्नास्ति चावक्तव्यं चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया विवक्षितवात्स्यादस्ति च नास्ति चावक्तव्यं चेति, इय च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति ||१०||११||
तदेव सामान्येन
सर्वस्यैव वस्तुनो भेदाभेदौ सर्वशून्यवादिमतनिरासेन
प्रतिपाद्याधुना
लोका
लोकयो प्रविभागेनास्तित्वं प्रतिपादयितुकाम आह— यदिवा सर्वत्र 'वीर्य' मित्यनेन सामान्येन वस्त्वस्तित्वमुक्त, तथाहि- - सर्वत्र वस्तुनो 'वीर्य'' शक्तिरर्थक्रियासामर्थ्यमन्तश स्वविषयज्ञानोत्पादन, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येव संज्ञा न निवेशयेत्, सर्वत्र वीयं नास्तीति नो एव संज्ञां निवेशयेदिति, अनेनाविशिष्ट वस्त्वस्तित्वं प्रसाधितम् इदानीं तस्यैव वस्तुन ई पद्विशेपितत्वेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाहमूलम् - णत्थि लोए अलोए वा, शेवं सन्नं निवेसए । तिथलो अलोएवा, एवं सन्नं निवेसए ।