________________
जैना म में स्याद्वाद
विद्यते'
संसारचक्रवालभ्रमरणस्य कारणभूत तेजोद्रव्य निष्पन्नं तेज एव तैजसं आहारपक्तिनिमित्त तैजसलब्धिनिमित्त चेत्येव भेदेन सज्ञानिरुक्त' कार्य च न स्यात् अथात्यन्तिका भेद एव ततो घटवद्भिन्नयोर्देशकालयोरप्युपलब्धि स्यात्, न नियता युगपदुलब्धिरिति एव च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेद कथञ्चिच्च सज्ञाभेदाद्भ े इति स्थितं । तदेवमौदारिकादीनां शरीराणां भेदाभेदौ प्रदर्याधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकाम पूर्वपक्ष श्लोकपश्चार्द्धन दर्शयितुमाह - 'सव्वत्थवीरियमित्यादि, सर्व सर्वत्र इतिकृत्वा सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानम्यैकत्वात्तस्य च सवस्यैव कारणत्वात् अत सर्व सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादौ परस्य — व्यक्तस्य 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वाद् अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं सज्ञां नो निवेशयेत्, तथा 'सर्वे भावा स्वभावेन स्वस्वभावव्यवस्थिता' इति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य 'वीर्य' शक्तिरित्येवमपि सज्ञां नो निवेशयेत् । युक्तिश्चात्र - यत्तावदुच्यते ' सारख्याभिप्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबधात्त न समानकालोपलब्धि' रिति, तदयुक्त, यतो भेदेन सुखदु खजीवितमरणदूरासन्नसूक्ष्मचादरकुरूपादिकं ससारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्न नाम, न च सर्वं मिध्येत्यभ्युपपत्तुं युज्यते, यतो हानिरहप्रकल्पना च पापीयसी । किंच - सर्व
१४
-