________________
श्री सूयगडाङ्ग सूत्र
१३ यादिति स्थितम् ॥६॥
पुनरप्यन्यथा दर्शन प्रति वागनाचार दर्शयितुमाह-- मूलम्-जमिदं ओरालमाहार, कम्मग च तहेव य (तमेवतं)
सव्यत्य वीरिय अत्थि, णत्थि सव्वत्थ वीरिय ॥ एएहिं दो हिं ठाणेहिं, ववहारो ण विज्जई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ||
-श्री सूयगडाङ्ग सूत्र ।।२।५।६०,११॥ टीका-यदि वा योऽयमनन्तरमाहार प्रदर्शित स सति शरीरे भवति शरीर च पञ्चधा तस्य चौदारिकादे शरीरस्य भेदाभेदं प्रतिपादयितुकाम पूर्वपक्षद्वारेणाह--'जमिद' मित्यादि, यदिदसर्वजनप्रत्यक्षमुदारै पुद्गलैर्निवृत्तमौदारिकमेतेदेवोराल निस्सारत्वाद् एतच्च तिर्यड्मनुष्याणा भवति, तथा चतुर्दशपूर्व विदा कचित्सशयादावाह्रियत इत्याहारम्, एतद्ग्रहणाच्च वैक्रियापादानमपि द्रष्टव्य, तथा कर्मणा निर्वृतं कार्मणम्, एतत्सहचरित तैजसमपि ग्राह्यम् ।
औदारिक क्रियाहारकाणां प्रत्येक तेजसकामेणाभ्या सह युगपदुपलव्धे कस्यचिदेकत्वाऽऽशङ्का स्यादतस्तदपनोदार्थ तदभिप्रायमाह-'तदेवतद' यदेवौदारिक शरीर ते एव तैजसकार्मणे शरीरे, एव वैक्रियाहारकयोरपि वान्य, तदेवभूता सज्ञा नो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवभूतामपि सज्ञा नो निवेशयेत् । युक्तिश्चात्र--यद्येकान्तेनाभेद एव तत इदमौटारिकमुदारपुद्गलनिष्पन्न तथैततकर्मणा निर्वर्तित कार्मण सर्वस्यैतस्य