________________
जैनागमों में स्याद्वाद कर्मणा नोपलिप्यते तदाधीको पभोगेनावश्यतया कर्मबन्धो भवतीत्येवं नो वदेत्, तथा श्रुतोपदेशमन्तरेणाहारगृद्ध्याऽऽधाकर्म भुजानस्य तन्निा मेत्तकर्मबन्धसद्भावात् अतोऽनुलिप्तानपि नो वदेत्,यथावस्थितमौनीन्द्रागमज्ञस्य त्वेव युज्यते वक्त म्-आधाकर्मोपभोगेन स्यात्कर्मबन्ध स्यान्नेति, यत उक्तम् - "किंचिन्छुद्ध कल्प्यमकल्प्य वा, म्यादकल्प्यमपि कल्प्यम् । पिण्डः शय्या वस्त्र पात्र वा भेषजाद्य वा ॥१॥" तथान्यैरप्यभिहितम्- "उत्पद्येत हि साऽवस्था, देशकालामयान्प्रति। यस्यामकार्य, काय स्यात्कर्म कार्य च वर्जयेत् ॥ १ ॥” इत्यादि ॥८॥ किमित्येव स्याद्वादः प्रतिपाद्यत इत्याह-आभ्यां द्वाभ्या स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि---यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोभ्युपगभ्येत एवं चाहाराभावेनाऽपि कचित्सु तरामनर्थोदय स्यात, तथाहि- क्षु.प्रपीडितो न सम्यगीर्यापर्थ शोधयेत् ततश्च वजन् प्राण्युपमई मपि कुर्यात् मूर्छादिसद्भावतया च देहपाते सत्यवश्यंभावी त्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तध्यानापत्तौ च तिर्यगातेरिति, आगमश्च"सव्वत्थ सजम सजमाओ अप्पाणमेव रक्खेज्जा'' इत्यादिनाऽपि तदुपभोगे कर्मबन्धाभाव इति तथाहि-आधाकर्मण्यपि निष्याद्यमाने पड्जीवनिकायवधस्तद्वधे च प्रतीत कर्मबन्ध इत्यतोऽनयो स्थानयोरेकान्तेनाश्रीयमाणयोव्यवहरण व्यवहारो न यज्यते, तथाऽऽभ्यामेव स्थानाभ्या समाश्रिता या सर्व मनाचार विजानी.