________________
जैनागमों में स्याद्वाद
तथा
समुच्छेत्स्यन्ती'
श्वतमित्येवभूतां दृष्टिं न धारयेदिति' एवं पक्षं न समाश्रयेत् । विशेषपक्षमाश्रित्य ' वर्त्तमाननारकाः त्येतच्च सूत्रमंगीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतवौद्धदर्शनाभिप्रायेण च सर्वमशाश्वतम् - अनित्यमित्येवंभूतां च दृष्टिं न धारयेदिति ||२|| किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्त्वित्येवभूतां दृष्टि न धारयेदित्याह - सर्वं नित्यमेवानित्यमेव वै ताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयोर्वा पक्षयोर्व्यवहरण व्यवहारो - लोकम्यैहिकामुष्मिकयो कार्ययो प्रवृत्तिनिवृत्तिलक्षणो न विद्यते, तथाहि — अप्रच्युतानुत्पन्नस्थिरैकस्वभाव सर्वं नित्यमित्येव न व्यव - हियते, प्रत्यक्षेणैव नवपुराणादिभावेन प्रध्वसाभावेन वा दर्शनात्, तथैव च लोकस्य प्रवृत्ते, आमुष्मिकेऽपि नित्यत्वादात्मनो वन्धमोक्षाद्यभावेन दीक्षायमनियमादिकमनर्थक मिति
व्यवह्रियते । तथैकान्तानित्यत्वे ऽपि लोको धनधान्यघटपदादिकमनागतभोगार्थं न संगृह्णीयात्, तथाऽऽमुष्मिकेऽपि क्षणिकत्वादात्मन प्रवृत्तिर्न स्यात्, तथा च दीक्षाविहारादिकमनर्थक, तम्मान्नित्यात्मके एव स्याद्वादे सर्वव्यवहारप्रवृत्ति, अतएव तयो - नित्यानित्ययो स्थानयोरेकान्तत्वेन समाश्रीयमाणयोरै हिकामुष्मिकाकार्यविध्वंसरूपमनाचार मौनीन्द्रागमबाह्यरूप विजानीयात्, तुशब्दो विशेपणार्थ, कथञ्चिन्नित्यानित्ये वस्तुनि सति व्यवहारो युज्यत इत्येतद्विशिनष्टि, तथाहि - सामान्यमन्वयिनमशमाश्रित्य स्यान्नित्यमिति भवति, विशेषांश प्रतिक्षणमन्यथा च श्रन्यथा च नवपुराणादिदर्शनत स्यादनित्य इति भवति, तथोत्पादव्ययश्रव्याणि चाह - दर्शनाश्रितानि व्यवहाराङ्ग भवति तथा चोक्तम्- घटमौलि सुवर्णा
६
न