________________
जैनागमों में स्याद्वाद
सम्यक् इतं-गतं सदनुष्ठानतया रागद्व परहितत्वेन समनया वा, तथा चोक्तम्-'जहा पुरणस्य कत्थइ तहा तुच्छस्स कत्थई' इत्यादि, समं वा-धर्मम् उत्-प्राबल्येन आह-उक्तवान् प्राणिनामनुग्रहार्थं न पूजासत्कारार्थमिति ॥४॥ मूलम्-संकेज्ज याऽकितभाव मिक्खू,
विभज्जवायं च वियागरेज्जा । भासादुयं धम्मसमुहितेहिं, वियागरेज्ज्जा समया सुपन्ने ।
-श्री सूयगडाङ्ग सूत्र ।।१। १४ । २२ ॥ टीका-साम्प्रतं व्याख्यानविधिमधिकृत्याह-'भिक्षु' साधुर्व्याख्यान कुर्वन्नर्वाग्दर्शियादर्थनिर्णयं प्रति अशकितभावोऽपि 'शंकेत'
औद्धत्यं परिहरन्नहमेवार्थस्य वेत्ता नापर' कश्चिदित्येदं गर्व न कुर्वीत किन्तु विषममर्थ प्ररूपयन् साशङ्कमेव कथयेद् , यदिवा परिस्फुदमप्यशङ्कितभावमप्यर्थं न तथा कथयेत् यथा पर शंकेत, तथा विभज्यवाद-पृथगर्थनिर्णयवाद व्यागृणीयात् यदिवा विभज्यवादः-स्याद्वादस्तं सर्वत्रास्खलित लोकव्यवहाराविसंवादितया सर्वव्यापिन स्वानुभवसिद्ध वदेत्, अथवा सम्यगर्थान् विभज्यपृथककृत्वा तद्वादं वदेत, तद्यथा--नित्यवादं द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत, तथा स्वद्रव्यक्षेत्रकालभावै सर्वेऽपि पदार्था. सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तम्-"सदव सर्व को नेच्छेत्स्वरूपादि*यथा पूर्णस्य कथ्यते तथा तुच्छस्य कथ्यते ।