________________
नमोऽत्थुण समणस्स भगवो महावीरस्स
जैनागमों में स्याद्वाद
श्री सूयगडाङ्ग सूत्र
एवमेयाणि जपता, बाला पंडिप्रमाणिणो । निययानिययं संत अयातो अबुद्धिया ||
Apra
-श्री सूयगडाङ्ग सूत्र ॥१|१|२| ४ | टीका - एव लोकद्वयेन नियतिवादिमतमुपन्यस्यास्योत्तरदानायाह । एवमीत्यनन्तरोक्तस्योपप्रदशने । एतानि पूर्वोक्तानि नियतिवादाश्रितानि चचनानि जल्पन्तोऽभिदधतो बाला इव बाला अज्ञा सदसद्विवेकविकला अपि सन्तः पण्डितमानिन आत्मानं पण्डितं मन्तु शील येषा ते तथा किमिति त एवमुच्यन्ते । इति तदाह यतो निययानिययं सतमिति' सुखादिकं किञ्चिन्नियतिकृतम् - अवश्यभाव्युदयप्रापितं तथा च नियतम् - आत्मपुरुपकारेश्वरादिप्रापितं सत् नियति कृतमेवैकान्तेनाश्रयन्ति, अतोऽजानाना सुखदु खादिकारणमबुद्धिका बुद्धिरहिता भवन्तीति तथाहि —-आर्हतानां किचित्सुखदुखादि नियतित एव भवति, तत्कारणस्य कर्मण. कस्मिश्चिदवसरेऽवश्यंभाव्युद्यसद्भावानयतिकृतमित्युच्यते, तथा किचिद नियतिकृतञ्च - पुरुषकारकालेश्वर