________________
श्री उत्तराध्ययन सूत्र
मूलम-धम्माधम्मागोमा, तिन्निवि एए अणाड या ।
अपज्जवसिया चेव, सव्वद्ध तु वियाहिया । ८॥ समए वि संतई पप्प, एवमेव विवाहिए। श्राएसं पप्प साईए, सपज्जवसिएविय ॥६॥ -~~श्री उत्तराध्ययन, वृहवृति, अध्ययन, ३६ सूत्र ५-६ ॥
टीका-धर्मश्चाधर्मश्चाकाशं च धर्माधर्मकाशानि त्रीण्यप्येतानि, न विद्यन्ते आदिर्येषा मेत्यनादिकानि, इत्यत कालात् प्रभृत्य" मूनि प्रवृत्तानीत्यसम्भवात् न पर्यवसितान्यपर्यवसितान्यनन्तानीतियावत् , न हि कुतश्चितकालात् परतएतानि न भविष्यन्तीति सम्भव , चैवौ प्राग्वत् , तथाच 'सर्वाद्धा' सर्वाकालं, कालात्यन्त संयोगे द्वितीया 'तु.' अवधारणेऽत सर्वदा म्वस्वरूपापरित्यागतो नित्यानीतियावत् , 'व्याख्यातानि कथितानि, सर्वत्र लिङ्गव्यत्यय. प्राग्वत , समयोऽपि 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां