________________
१४०
जैनागमों मे स्याद्वाद रप्यसत्वापत्ते तथाहि शक्यते वक्तु परपरिकल्पित द्रव्यमसत्, पर्यायतिरिक्तत्वात् बालत्वादिपर्याय शून्यवन्ध्या सुतवत् , तथा परपरि कल्पिता पर्याया असतोद्रव्यव्यरिरिक्तत्वात् बन्ध्यासुतगत्बालत्वादि पर्यायवत् , उक्तञ्च द्रव्यंपर्यायवियुतं पर्याया द्रव्यवर्जिता' क कदा केन कि रूपा दृष्टा मानेन केन वा ।। १ ।। इति कृत प्रमग न “से एण्णठे मित्याद्य पसंहार वाक्य सुगम, इह द्रव्याम्तिकनयवादी स्वमत प्रतिष्ठापनार्थमेवमाह- नात्यन्तासत उत्पादो नापिसतो विद्यते विनाशो वा" नासतोविद्यते भावो नाभावो विद्यते सत', इति वचनात् , यौतुदश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं यथा सर्पस्य उत्फणत्वविफणत्त्वे तस्मात् सर्ववस्तुनित्यामिति, एवञ्चतन्मतचिन्तायां संशय - किं घटादिवत् दव्यार्थतया शाश्वती उन् सकलकालमेवं रूपेति ? तत संशयापनोदार्थ भगवन्तं भूय पृच्छति पउमरवेइया ण' मित्यादि, पद्मवरवेदिका रणमिति पूर्ववत् भदन्त परम कल्याणयोगिन्-कियच्चिर -~कियन्त कालं यावद् भवति एवरूपा कियन्तं कालमवतिष्ठते इति भगवानाह - गौतम । न कदाचिन्नासीत् सर्वदैवासीदिति भाव अनादित्वात् , तथा न कदाचिन्न भवति सर्वदेव वर्तमान काल चिन्तायां भवति भाव , सर्वदेव भावात् तथा न कदाचिन्न भविष्यति, किन्तु भविष्यच्चिन्तायां सर्वदेव भविष्यतीति प्रतिपत्तव्यम, अपर्यवमितत्वान् , तदेव कालत्रयचिन्तायां नास्तित्त्व