________________
१३२
जैनागमों में स्याद्वाद तया शाश्वती उतसकलकालमेवरूपा इति, तत संशयापनोदार्थ भगवन्तं भूय पृच्छति-'पउमवरवेइया ण' मित्यादि, पद्मवर. वेदिका णमिति पूर्ववद् ‘भदन्त " परमकल्याणयोगिन् । 'कियचिर' कियन्त कालं यावद्भवति ?, एवं रूया कियन्तं कालमवतिष्ठते । इति, भगवानाह-गौतम । न कदाचिन्नासीत्, सर्वदैवासीदिति भाव अनादित्वात् , तथा न कदाचिन्न भविष्यति, किन्तु भविष्यच्चिन्ताया सर्वदैव भविष्यतीति प्रतिपत्त्य, अपर्यवसितत्वात् , तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिपेधं विधाय सम्प्रत्यस्तित्व प्रतिपादयति--'भुवि चे' त्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वाद् 'ध्रुवा मेर्वादिवद् ध्रुवत्वादेव सदैव स्वम्वरूपे नियता, नियतत्वादेव च 'शाश्वती' शश्वद्भवनम्वभावा, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवानेकपुद्गलविचटनेऽपि तावन्मानान्यपुलोचटनसम्भवाद् 'अक्षया' न विद्यते क्षयो-यथोक्तस्वरूपाकारपरिभ्रशो यस्या साऽक्षया, अक्षयत्वादेव 'अव्यया' अव्ययशळवाच्या, मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात् , अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुपोचरपर्वताद् चहि समुद्रवत्, एव स्वस्वप्रमाणे सदाऽवश्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् ॥