________________
३६१
तत्त्वार्य-सूत्र
अधिके च ॥४१॥ परतः परतः पूर्वापूर्वाऽनन्तरा ॥४२॥ .. नारकाणां च द्वितीयादिषु ॥४३॥ दशवर्षसहस्राणि प्रथमायाम् ॥४४॥ भवनेष च ॥४५॥ .. . . . . . व्यन्तराणां च ॥४६॥ परा पल्योपमम् ॥४७॥ ज्योतिष्काणामधिकम् ॥४८॥ ग्रहाणामेकम् ॥४॥ नक्षत्राणामर्धम् ।।५।। तारकाणां चतुर्भागः ॥५१॥ . . जघन्या त्वष्टभागः ।।५२।। चतुर्भागः शेषाणाम् ॥५३।।
.. . पंचमोऽध्यायः . . . अजीवकाया धर्माधर्माकाशपुद्गलाः ॥१॥ द्रव्याणि जीवाश्च ।।२।। नित्यावस्थितान्यरूपाणि ।।३।। रूपिणः पुद्गलाः ॥४॥ आकाशादेकद्रव्याणि ॥५॥ निष्क्रियाणि च ॥६॥ असङख्येयाः प्रदेशा धर्माधर्मयोः ।।७।। जीवस्य च ॥८॥ आकाशस्यानन्ताः ॥९॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥१०॥