________________
३६२
तत्त्वार्थ-सूत्र नाणोः ॥११॥ लोकाकाशेऽवगाहः ॥१२॥ धर्माधर्मयोः कृत्स्ने ।।१३।। एकप्रदेशादिषु भाज्यः पुद्गलानाम् ।।१४॥ असङ्ख्ये यभागादिषु जोवानाम् ।।१५।। प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ।।१६।। गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ।।१७।। आकाशस्यावगाहः ॥१८॥ शरीरवाङमनः प्राणापानाः पुद्गलानाम् ||१९|| सुखदुःखजीवितमरणोपग्रहाश्च ।।२०।। परस्परोपग्रहो जीवानाम् ।।२१।। वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ।।२२।। स्पर्शरसगन्धवर्णवन्तः पुद्गला: ॥२३॥ शब्दवन्धसोक्षम्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥२४॥ अणवः स्कन्धाश्च ॥२५॥ संघातभेदेभ्य उत्पद्यन्ते ।।२६।। भेदादणुः ॥२७॥ भेदसंघाताभ्यां चाक्षुषाः ॥२८॥ उत्पादव्ययध्रौव्ययुक्त सत् ।।२६।। तद्भावाव्ययं नित्यम् ।।३०।। अपितानर्पितसिद्धः ॥३१॥ स्निग्धरूक्षत्वाद्वन्धः ।।३।। न जघन्य गुणानाम् ॥३३॥ गुणसाम्ये सदृशानाम् ।।३४॥