________________
३६०
तत्वार्य-सूत्र नारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु में वेयकेषु विजयवैजयन्तजयन्ताऽपराजितेषु सर्वार्थ सिद्ध च ।।२०।। स्थितिप्रभावसुखद्य तिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ।।२१।। गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२२॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥२३।। प्राग् ग्रे वेयकेभ्य: कल्पाः ।।२४।। ब्रह्मलोकालया लोकान्तिका: ॥२५॥ सारस्वतादित्यवह्नयरुणगर्दतोयतुषिताऽव्यावाध.. .. मरुतोऽरिष्टाश्च ॥२६॥ विजयादिषु द्विचरमाः ।।२७।।
औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ।।२।। स्थितिः ॥२६॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥३०॥ शेषाणां पादोने ॥३१॥ असुरेन्द्रयोः सागरोपममधिकं च ॥३२।। सौधर्मादिषु यथाक्रमम् ॥३३॥ सागरोपमे ||३४|| अधिके च ॥३५॥ सप्त सानत्कुमारे ॥३६।। विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥३७॥ आरणाच्युतादूर्वमेकैकेन नवसु वेयकेषु विजयादिषु सर्वार्थसिद्ध च ॥३८॥ अपरा पल्योपममधिकं च ॥३६। सागरोपमे ॥४०॥