________________
तत्वार्थ सूत्र
तंत्र भवप्रत्ययो नारकदेवानाम् ||२२|| यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ||२३|| ऋजुविपुलमती मनः पर्यायः ||२४|| विशुद्धयप्रतिपाताभ्यां तद्विशेषः ||२५|| विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्याययोः ||२६|| मतिश्रुत योनिवन्धः सर्वद्रव्येष्वसर्व पर्यायेषु ||२७||
रूपिष्ववधेः ||२८||
तदनन्तभागे मनःपर्यायस्य ||२||
सर्वद्रव्य पर्यायेषु केवलस्य ||३०|| एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ||३१|| मतिश्रुतावधयो विपर्ययश्च ॥३२॥ सदसतोरविशेषाद् यदृच्छोपलब्धेरुन्मत्तवत् ||३३|| नैगमसंग्रह व्यवहारर्जु' सूत्रशब्दा नयाः ||३४|| आद्यशब्दो द्वित्रिभेदी ||३५||
द्वितीयोऽध्यायः
औपशमिकक्षायिको भावी मिश्रश्च जीवस्य स्वतत्त्वमौदयिक
पारिणामिको च ॥१॥
द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ||२||
सम्यक्त्वचारित्रे ||३||
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥ ४ ॥
ज्ञानाज्ञानदर्शनदाना दिलब्ध यश्चतुस्त्रित्रिपञ्चभेदाः यथाक्रमं सम्यक्त्वचारित्रसंयमासंयमाश्च ॥ ५॥
गतिकषाय लिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयताऽसिद्धत्वलेश्याश्चतुश्चतुस्त्र्ये कै कै कै कषड्भेदाः ||६||
३५५